पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
लक्ष्मीनृसिंहकरुणारसस्तोत्रम् ।

प्रह्लादनारदपराशरपुण्डरीक-
 व्यासादिभागवतपुंगवहृन्निवास ।
भक्तानुरुक्तपरिपालनपारिजात
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥

लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
 स्तोत्रं कृतं शुभकरं भुवि शंकरेण ।
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-
 स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
लक्ष्मीनृसिंहकरुणारसस्तोत्रं सम्पूर्णम् ॥