पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । ) चनात् । अथवा, मङ्गलशब्दन मङ्गलहतुभूता स्त्रियो लक्ष्यन्ते । सर्वेषा प्राणिना मङ्गल मङ्गलसाधनभूता योषा स्वाभिन्नसच्चिदानन्दवत्त्वेन यस्या सा तथा, 'एतस्यैवान. न्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेरित्यर्थ । 'अशुभानि निराचष्टे तनोति शुभसततिम् । स्मृतिमात्रेण यत्पुसा ब्रह्म तन्मङ्गल विदु । अतिकल्याणरूपत्वात् नित्य- कल्याणसश्रयात् । स्मतृणा वरदत्वाच्च ब्रह्म तन्मङ्गल विदु इत्यादिवचनात् || ॐ सर्वमङ्गलायै नम ॥ सर्वकर्त्री। सर्वं समस्त स्वशक्त्या मायारूपया करा तीति तथा, 'ईशत ईशनीमि ' इति श्रुत ॥ ॐ सर्वकर्त्र्यै नमः॥ सर्वभत्री । सर्वं बिभर्तीति तथा, एष विधृतिरेषा लाकानाम् इति श्रुत ॥ ॐ सर्वभर्त्र्यै नमः ।। सवहन्त्री । सर्वं हरतीति तथा । एभिनामत्रयै 'यतो वा' इत्यादिश्रुत्युक्ततटस्थलक्षणत्रयमभिहितमिति वेदित व्यम् । ॐ सर्वहन्त्र्यै नम ॥ सनातना । अजो नित्य शाश्वताऽय पुराण इति श्रुत नित्यसिद्धस्वरूपेत्यर्थ ।। ॐ सनातनायै नम ।। >