पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१३
ललितात्रिशतीभाष्यम् ।


 हतदानवा । इता दानवा अनेकप्रकारशक्तिरूपधरया भण्डासुरादय यया सा तथा ॥ ॐ इतदानवायै नमः

हत्यादिपापशमनी हरिदश्वादिसेविता ।
हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियाङ्गना ।।

 हत्यादिपापशमनी । हत्या ब्रह्महत्या आदिर्येषा तानि तथा पापानि शमयतीति तथा, 'हरिर्हरति पापानि' इति वचनात् ।। ॐ हत्यादिपापशमन्यै नमः ।।

 हरिदश्वादिसेविता । हरित् हरिद्वर्ण मरकत इव अश्वो यस्येन्द्रस्य स तथा आदिर्येषा दिक्पतीना तै सविता चरणारविन्दसनिधिंं किंकरतयाश्रितेत्यथ ॥ ॐ हरिदश्वादिसेवितायै नम ॥

 हस्तिकुम्भोत्तुङ्गकुचा । हस्त अस्यास्तीति हस्ती, तस्य कुम्भौ तद्वदुन्नतौ कुचौ सान्द्रौ यस्या सा तथा ॥ ॐ ह स्तिकुम्भोत्तुङ्गकुचायै नम ॥

 हस्तिकृत्तिप्रियाङ्गना । इस्तिन कृत्तौ चर्मणि प्रिय प्रीतिमान् शिव , तस्याङ्गना भामिनीत्यथ ॥ ॐ हस्तिकृत्तिप्रियाङ्गनायै नमः॥