पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
ललितात्रिशतीभाष्यम् ।

णिमा महिमा लघ्वी गरिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्र कामाः परागताः' इति वचनात् । ताः सिद्धीरष्टौ दवातीति तथा । अणिमा क्षणमात्रेण अतिसूक्ष्मभावः । महिमा महतो भावः । लघ्वी लाघवम् । गरिमा गुरोर्भावः, जडतरपर्वतादिवत् भारवशेनाप्रकम्पितत्वमित्यर्थः । क्षणमात्रेण विराडाकृतिमत्त्वं प्राप्तिः । हस्तेन चन्द्रमण्डलादिस्पर्शः ईशिता, इन्द्रादीनामपि प्रेरकता। प्राकाम्यम् अप्रतिहतकामनावत्त्वम्, वाञ्छितार्थफलप्राप्तिरित्यर्थः । वशित्वं सर्वलोकवशीकरणसामर्थ्यम् । यत्र कामाः परागताः काम्यन्त इति कामाः विषयाः यत्र यस्मिन् ऐश्वर्ये सति परागताः बहिर्भूता भवन्ति, विषयाणामनुभवाभावेऽपि तज्जन्यसुखवत्वम् आप्तकामत्वमित्यर्थः । एताः अष्टसिद्धयः । ॐ ईशित्वाद्यष्टसिद्धिदायै नमः ॥

ईक्षित्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा ।
इंडिता चेश्वरार्धाइशरीरेशाधिदेवता ॥ ११ ॥

 इक्षित्री । उदासीनद्रष्ट्री साक्षिणी असङ्गोदासीनज्ञानस्वरूपेत्यर्थः, 'साक्षी चेता' इति श्रुतेः, 'आविः संनिहितं गुहायाम्' इति श्रुतेः । ॐ इक्षित्र्यै नमः ॥