पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
left१३८
शारदाभुजगप्रयाताष्टकम् ।


सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्या मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्त्र मदम्बाम् ॥४॥

सुशान्ता सुदेहा दृगन्ते कचान्ता
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मरेत्तापसै सङ्गापूर्वस्थिता ता
भजे शारदाम्बामजस्त्र मदम्बाम् ॥५।।

कुरङ्गे तुरगे मृगेन्द्रे खगेन्द्र
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्या नवभ्या सदा सामरूपा
भजे शारदाम्बामजस्त्र मदम्बाम् ॥६॥

ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गी
भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोन्नसंगीतनृत्यप्रभाङ्गीं
भजे शारदाम्बामजस्त्र मदम्बाम् ॥७॥