पृष्ठम्:शङ्करविजयः.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ पञ्चमस्सर्गः


पृथ्वीं पृथ्वीं पर्यटन् भाष्यकारः
स्वेच्छाचारी शिष्यसङ्घैः परीतः ।
भाष्यं भाष्यं सन्दधानः स्वहस्ते
तीर्थं 1प्रापत्तीर्थकस्तीर्थमूर्तिः ॥ १ ॥

कलिन्दपुत्र्यास्सजलाभ्रकान्त्या
क्षीराभया जह्नतनूजया च ।
यत्राभवत्सङ्गतिरल्पपुण्यै-
स्सुदुर्लभा मुक्तिपदं जनानाम् ॥ २ ॥

गङ्गाप्रवाहै 2रवरुद्धवेगा
कलिन्दकन्या स्तिमितप्रवाहा ।
अपूर्वसख्या गत​लज्जयेव
यत्राधिकं भाति विचित्रपाथाः ॥ ३ ॥

ब्रह्मादयोऽप्यभिमत​प्रतिपादशक्ता
यत्रायजन्त पुरुषार्थ​विशेषसिद्ध्यै ।
अद्यापि यत्र यजनं प्रथितं प्रशस्तं
यस्य प्रयाग इति नाम बभूव लोके ॥ ४ ॥

यत्राप्लुता दिव्यशरीरभाज
आचन्द्रतारं दिवि भोगजातम् ।
संभुञ्जते 3व्याधिकथानभिज्ञाः
प्राहेममर्थं श्रुतिरेव साक्षात् ॥ ५ ॥


1का. प्राप्तस्तीर्थकः । 2अ. उपरुद्धवेगा; का. उपगूढवेगा ।

3का. तेऽत्त्यादिकथा ।

Sankara-4A