पृष्ठम्:शङ्करविजयः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
23
तृतीयस्सर्गः

इति हरिर्ग​मनाय समुद्यतो
गरुडमस्मरदेष समागमत् ।
1तमधिरुह्म सुरैस्सममेयिवान्
रजतभूधरभूधरमुत्तमम् ॥ ६० ॥

हरिविरिञ्चिपुरोगममाधवः2
शिवपदं गुणपूर्णमरो3चत ।
समवरुह्म ततो निजवाहनात्
4सविनयः प्रतिहारभुवं ययौ ॥ ६१ ॥

कनकवेत्रध​रं स च नन्दिनं
धवलदेहमपृच्छदनेहसम् ।
हरिमयं वदति स्म सदा हरं
समय एव हरे प्रतिपालनम् ॥ ६२ ॥

स च निवेद्य हराय हरिं हरेः
करतलं 5परिगृह्य पुरो ययौ ।
अथ हरस्सहसोत्थितवान् हरेः
करतलं स्वकरेण समग्रहीत् ॥ ६३ ॥

कमलजञ्च सचक्रमुपाचर-
त्त्वथ यथोचितमन्यमुरान् शिवः ।
अथ महर्षिग​णः श्रुतवानिमं
हरिहरद्वयतीर्थसमागमम् ॥ ६४ ॥

मुदितमानस आशु समाययौ
हरिहराववलोकितुमुत्तमौ ।
यदनयोरुभयोरिह सङ्गमः
6स्वगतृषैरपि दुर्लभ एव सः ॥ ६५ ॥


1आ. तमधिगम्य । 2क. वासवः ।

3का. लोकत । 4अ. सविनयं ।

5क. प्रतिगृह्य । 6काः सुरवरैरपि।