पृष्ठम्:शङ्करविजयः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
17
तृतीयस्स​र्गः

व​सुमतीगतमेकपदं न्यधा-
दपरमूर्ध्व​गतं प्रविधाय सः ।
दिनकरे नयने समुपास्त ते
1शिवमधोधृतदोर्युगलश्शिशुः ॥ २८ ॥

स शिशुरत्व​शयिष्ट 2तपश्चरन्
मुनिजनांस्तषसापि पुरातनान् ।
मुनिजना अपि वीक्ष्य 3शिशुं भृशं
तपसि 4विष्ठितमेत्य सुविस्मिताः ॥ २९ ॥

5उदभवत्तनुतोऽस्य महामहः
6स तु जगत्त्रयमूर्जितमानशे ।
प्रतिहता ह्भगुरूर्ध्व​मधोमुरवा
दिनकरस्य करा मुनितेजसा ॥ ३० ॥

वसुमती नमति स्म च तद्दिशि
7व्यधित पादतलं स तु यद्दिशि ।
नगनदीवनवारिधिसंहिता
हरिहयः श्रुतवानिदमद्भुतम् ॥ ३१ ॥

स च बिभाव​ भृशं मुनिपुत्रका-
दतिसुरासुरकर्मणि विष्ठितात् ।
8किमभिलष्य 9तपश्चरतीत्यसौ
मम पदं प्रतिलित्सुरूता10परम् ॥ ३२ ॥


1अ. अथो ।; क. अथोद्भुत । 2तपश्चरान् ।

3क. तपश्वराः । 4निष्ठित ।

5क. उदितवत् । 6क. तदु ।

7क. न्यधित । 8का. समभिचिन्त्या ।

9श्च​रति ह्यसौ । 10उतावरं ।

Sankara-2