पृष्ठम्:शङ्करविजयः.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
14
शङ्करविजये

अभिनिमज्य सर1स्सलिले सुखे
स्थिरमहीरुहमूलवसुन्धराम् ।
किसलयोत्तरदर्भतृणाङ्कुरै-
र्व्य​वहितां प्रविधाय मनोरमाम् ॥ ११ ॥

उपनिविश्य ततो हरिदिङ्मुखो
2गदितमन्त्रमुदाहरदैश्वरम् ।
पृथुलदीर्घव3टाङ्घिकृतांशुको
व्यघित वल्लिमसौ कटिसूत्रक्रम् ॥ १२ ॥

मनुवरे शिवदैवतविग्रहे
वि4दधदात्ममनो विषयोपगम् ।
मनुमिमं जपति स्म पुरोदितं
नयनमर्घ​निमीलितमुद्वहन् ॥ १३ ॥

मुनिजनोदितवृत्तिम 5सौ व्यधात्
त्रिषवणं सरमीकृतमज्ज​नः ।
स्थिरनिबद्धसुखासनसंस्थितो
विजनतावनितापरितोषितः ॥ १४ ॥

मितमपीह फलं स निषेवते
न च जहाति भृशं स कदाचन ।
स्वपिति नात्र भृशं न च जागरं
व्रजतेि बालमुनिर्बहुयोगवित् ॥ १५ ॥

क्षुधितसिह्मगणस्सरसीजलं
परिपिपासुरिहाट​ति ख​ण्डधीः ।
शिशुमुनिं समुदीक्ष्य 6नदन् मनाक्
7चकितवत्प्र​पलायति दूरतः ॥ १६ ॥


1क. सुखे सरसीजले । 2क. गदितमैश्वरमन्त्रमुदाहरत् ।

3क. वलाङ्घि का. ममुं तटरोहिणीम् । 4क. व्यदधत् ।

5क. वृत्तिरसौ सुकृत् । 6अ. न दिङ्मना । 7अ श्र​ ।