पृष्ठम्:शङ्करविजयः.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयस्सर्गः

शनै रुदन्ती तनयं बभाषे
मातोदिताश्रुं निविमृज्य दीना ।
तातद्देशं दुग्धमिहास्ति गेहे
विशेषलाभे मम नास्ति भाग्यम् ॥ ६ ॥

आराधितो नेश्वरकल्पशाखी
भवान्तरे तात मया कदाचित् ।
यदीश्वरस्याङ्ग्रिस​रो1जयुग्मं
समर्चितं तत्कथमीदृशं स्यात् ॥ ७ ॥

तातेह ये परिजनम्बरभूषणा2स्स्युः
स्त्रीरत्नगोवसुमतीसुख​भोगभाजः ।
तान्विद्धि पूजितशिवान् पुरुषांस्त्रिलोक्यां
न चेत्कथं गदितवैभवभागिनः स्युः ॥ ८ ॥

यद्येवमम्ब मम दुवेघतापहन्तृ
कर्माकलय्य विधिवत्करणीयमेव ।
3तुष्येद्धरः करुणयैव विना विपतिं
येनाशुभेन4 विरहय्य तनुर्न​ मेऽन्यत् ॥ ९ ॥

इतीरयित्वा जननीम​नुज्ञां
पञ्चाब्दमात्ररतपसे धृतात्मा ।
5अयाचताथाहमठानि किञ्चित्
संप्रार्थयस्वांखिलदेवतास्त्वम् ॥ १० ॥


1अ. का मर्चितं तदा कथं जीवनमीदृशं स्यात् ।

2का. णाढ्याः ।

3का. तुष्ट्वेश्वरं ।

4अ. येनाशु येन, का. यानाश्नुतेन विरहय्य तनुं न मेऽन्यत् ।

5क. अयाचताद्य​हं ।