पृष्ठम्:शङ्करविजयः.djvu/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
189
एकादशस्सर्ग

यदि युवां भिषजौ वयमर्थिनो
गुरुरयं 1गदितो बहुवित्तमः
कुरुतमस्य चिकित्सितमीप्सितं
2विधिनुतं भवतोरिह दर्शनम् ॥ १४४ ॥

भुवि दिनानि बहूनि भिषग्वरा
न मृगयामहि ते च​ कृतक्रियाः ।
गदमसाध्यमुदीर्य ययुर्गृहं
मृगयितव्यमताे3 भवतोर्युगम् ॥ १४५ ॥

विधिकृतागमनौ सहसा युवां
गरुरयं विगतज्वर 4ईप्सितः ।
इति बुधौ हृदये प्रतिभाति नो
हृदयमेव हि मानमभीप्सिते ॥ १४६ ॥

इति समीपगशिष्यगणोदिता
ववदतां भिषजौ यतिसत्तमम ।
रहसि येयमितो भवता यते
वितनवाव यथाबलमौषधम् ॥ १४७ ॥

दृढसुधामयदोर्युगलेन तौ
गदमुदीक्ष्य समस्पृशतां शनैः ।
द्विजवरौ भिषजौ मुनिसत्तमं
तत उपाजनि शं सह निद्रया ॥ १४८ ॥

निजकरे मथितोत्थितवाह्निके
ज्वलनवज्ज्वलितामभितापिताम् ।
बहुविधौषधभाजन 5मूर्तिकां
निजकराङ्गु6लिकारुघिरस्रुतिम् ॥ १४९ ॥


1अ. गदिको । 2अ. कृतं ।

3अ. मिदं । 4अ. ईडितः ।

5का. मृत्तिकां । 6का. लिकां ।