पितृकृता जनिरस्य शरीरिण-
स्समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना
भिषगसौ हरिरेव तनुभृतः ॥ १०२ ॥
यदुदितं भवता वितथं न तत्
तदपि न क्षमते व्रजितुं मनः ।
सुरभुवं प्रविहाय मनुष्यकं
व्रजितुमिच्छति कोऽत्र नरस्सुधीः ॥ १०३ ॥
इति निगद्य गते भिषजां गणे
विमनसि प्रथिते गदपीडितः ।
हृदयगौ विदधे मुनिरश्विनौ
हरिहयस्य गृहे गदहारिणौ ॥ १०४ ॥
दिविषदां भिषजौ मम भेषजं
कुरुतमद्य 1नमः कृपयास्तु वाम् ।
मनुजलोकगता भिषजो जहु-
र्गदमुदीक्ष्य स्वरं भृशमक्ष2मम् ॥ १०५ ॥
सुरभिषग्युगलं बुबुधेऽथ त
त्तदकरोच्च परस्परम3न्त्रणम् ।
मनुजरोग4चिकित्सनमावयो-
रनुचितं विपरीत5मथो भवेत् ॥ १०६ ॥
अथ विचारयितुं ययतुस्सभां
हरिहयस्य पटू गुरुसङ्ग6ताम् ।
अमृतबिन्दुकणादुदियाय या
ददतुरेवमभीतिमभीप्सिताम् ॥ १०७ ॥
1अ. मनः । 2अ. अक्षमाः ।
3अ. मन्त्रणाम् । 4अ. लोकचिकित्सितं ।
5क. मितो । 6अ. संमितां ।