सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
179
एकादशस्सर्गः

अपि मनो भवतां नृपसेविनां
तदनुसारि दिवानिशमज्वरम् ।
दहनवन्नृपतिं परिषेवितुं
शिथिलबुद्धिभिरङ्ग न शक्यते ॥ ८४ ॥

1अपि भवद्विषये न भयं क्व​चि-
द्विषमदुर्गमदुर्गसमाश्रयात् ।
ख​लपतेः कुलभूपम2नीषितुः
परधनेन हृतेन सदाश्न​तः ॥ ८५ ॥

नरपतेरपि शासनमार्दवा-
ज्जनपदो न च वो बहुतस्करः ।
कथितशास्त्रविदो वहु मन्वते
नृपतयो गुणदोषविचक्षणाः ॥ ८६ ॥

सततमर्थितमेव हि भेषजं
तदपि सञ्चितमस्ति भवद्गृहे ।
न हि विदन्ति जनाः परसङ्कटं
स्वहितमर्थयितुं प्रभवो हि ते ॥ ८७ ॥

अतिथिरत्तुमना गृहमागतो
हतमनाः क्रियते हि न गेहिभिः ।
स हि 3समीक्षत एव भवाहशै-
स्त्रिदशलोकगतौ दृढसंक्रमः ॥ ८८ ॥

आप मखः क्रियते बहुदक्षिणो
द्विजवरैर्बहुयाजकसाध​कः ।
4बहुफलो बहुभक्तसुतृप्तिदो
बहुदिनश्रुतिघोषसमन्वितः ॥ ८९ ॥


1अ. अयि । 2अ. अनीक्षितुः ।

3अ. समीरित । 4का. शुभफलः ।