पृष्ठम्:शङ्करविजयः.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
163
दशमस्सर्गः

इत्येवमादिवचनैरनुनीय दूती
तां नायिकां पतिसमीपमथानिनाय ।
कश्चिद्युवा स्वदयितां प्रणतः पदाभ्यां
संताडितोऽपि चरणौ न मुमोच दीनः ॥ १२४ ॥

काचित्कृतागसमताडयदुत्तमाङ्गे
लीलागृहीतकमलेन निजासुनाथम् ।
मत्तो गजेन्द्र इति कञ्चन काचिदुक्त्वा
काञ्चीगुणेन रुषिता भृशमाबबन्ध ॥ १२५ ॥

दूतीवचोभि1 रुचितैर्मधुनोदितैन
संवर्धितो मकरकेतुरवाप्तशक्तिः ।
चक्रे मदेन च वशं युवतीस्सकान्ता-
स्सद्यो जहुः प्रणयकोपमशेषमेव ॥ १२६ ॥

अन्योन्यसन्दर्शितजातहृच्छया-
स्संभाषणादीनि मिथो वितेनिरे ।
विरोधवार्ता न च शुश्रुवे तदा
स्नेहातिरेकोद्रतिमापुरुत्तमाः ॥ १२७ ॥

सुरतसम्भ्रमतो गलितं न ताः
करगलादिगतं वरभूषणम् ।
अविदुरुद्धतमन्मथमोहिताः
किमिव कारयितुं मदनोऽनलम् ॥ १२८ ॥


- 1अ. रुदितैः ।

Sankara-12