पृष्ठम्:शङ्करविजयः.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
161
दशमस्सर्गः

नास्यास्ति किञ्चिदपि लक्ष्म कलङ्कभावं
चन्द्रे कलङ्करहिते जनतेयमाह ।
आरोप्य भूगतमिदं प्रतिबिम्बमात्रं
चन्द्रः कलङ्कित इति प्रतिबुद्धिरेषा ॥ ११३ ॥

अस्यापि हन्त भविता व्यसनं दुरन्तं
वर्षासु मेघमलिनीकृतदिक्षु भद्रे ।
एतावदेव कथयन् युवतिद्वितीयः
स्वं मन्दिरं प्रति जगाम विलोक्य काष्ठाम् ॥ ११४ ॥

अवसरमभिवक्ष्य पुष्पधन्वा
युवतिजनेषु शरं मुमोच विद्वान् ।
मधुरसवशगेषु 1निर्दयात्मा
निजस​मये विहितः फलाय योगः ॥ ११५ ॥

युवजनेऽपि तथाविधचेष्टिते
मनसिजो न्यधितास्त्रपदं पुनः ।
मृदुमनाः पुरुषस्तदपेक्षया
मृदुषु मार्दवमेव विधीयते ॥ ११६ ॥

यथा हुताशो ज्वलितुं व्यपेक्षते
काष्ठं तदन्यज्वलनञ्च साधनम् ।
तयोश्च योगो घठकव्यपेक्षण-
स्तथा युवादिर्घटकं व्यपेक्षते ॥ ११७ ॥

कश्चिद्युवा मकरकेतनशासनस्थ-
स्संप्राहिणोदसुसमानयनाय दूतीम् ।
तत्तद्विधेयकरणेषु पटिष्ठ​बुद्धिं
सामादिभिस्त्वमनुनीय समानयेति ॥ ११८ ॥


1अ. निर्भयात्मा ।

Sankara-11