सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
150
शङ्करविजये

मधुव्रतानां परिपूर्णमेव त-
द्व्र​तं यदेषां मधुपानसंज्ञितम् ।
नानाविधे पुष्परसे सहोदिते
बभूव तेषामपि चञ्च​लं मनः ॥ ४७ ॥

1असना व्यसनाय केवलं
परितापाय विश्वासिमाधवी ।
मधुरा मधुलेहिगीतिका
विपरीता समजायताध्वगे ॥ ४८ ॥

मन्दो वायुः कूजितं कोकिलानां
गीती रम्या षट्पदानां मदेन ।
पौष्पो गन्धस्सन्निधिश्चाङ्गनानां
चित्तं सर्वं सञ्जहाराशु पुंसाम् ॥ ४९ ॥

उपचितसुरभिश्रियं प्रपश्यन्
वसति 2सुताभिरातिं विहाय शीघ्रम् ।
कतिपयदिवसस्थितिं दुरापां
युवतिजनो युवभिर्वनं विवेश ॥ ५० ॥

अपचिचीषुरगात् युवभिस्समं
सुरभिपुष्पतरून् सुमनश्चयम् ।
स्तनभरानमितः कृशमध्यमो
विकासिताव्जमुखो वनितागणः ॥ ५१ ॥

पुष्पं लुनाना कमितारमेका
जग्राह भीतेव मधुव्रतालेः ।
अन्या परागः पतितो ममाक्ष्णी-
त्येवं ब्रुवाणा पतिमाससाद ॥ ५२ ॥


1अ. असनं । 2सुतादिरर्ति ।