सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
143
दशमस्सर्गः

स्वस्थे भवत्पादसरोरुहद्व​ये
स्वस्था वयं ते1 मधुपायिवृत्तयः ।
तस्माद्भवेत्तावकविग्र​हो यथा
स्वस्थस्तथा वाञ्छति पूज्य नो मनः ॥ ६ ॥

व्याधिर्हि जन्मान्तरपापपाको
भोगेन तस्मात्क्षपणीय एषः ।
अभुज्यमानः पुरुषं न मुञ्चेत्
जन्मान्तरेऽपीति हि शास्त्रवादः ॥ ७ ॥

व्याधिर्द्विघा नः कथितो 2विद​द्भिः
कर्मोद्भवो घातुकृतस्तथेति ।
आद्यक्षयः कर्मण एवं लीनात्
चिकित्सया स्याच्चरमोदितस्य ॥ ८ ॥

...यतां कर्मण एव संक्षयात्
व्याधिः प्रवृत्तो न चिकित्स्यते मया ।
पतेच्छरीरं यदि तन्निमित्ततः
पतत्ववश्यं न बिभेमि किञ्चन ॥ ९ ॥

सत्यं गुरोस्ते न शरीरलोभः
स्थिराय तस्मै स्पृहयालुता नः ।
त्वज्जीवनेनैव हि 3जीवनं न
श्वराचराणां जलमेव जीव ॥ १० ॥

स्वयंकृतार्थाः पर​तुष्टिहेता
र्जीवन्ति सन्तो निजदेहरक्षाः ।
तस्माच्छरीर परिरक्षणीयं
त्वयापि लोकस्य हिताय विद्वन् ॥ ११ ॥


1अ. यन्मधु । 2अ. वदद्भिः ।

3अ. जीवनं नो यथा चराणां ।