पृष्ठम्:शङ्करविजयः.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
134
शङ्करविजये

तव वपुः किल सत्त्वमुदाहृतं तव हि कोपनमण्वपि नोचितम् ।
तदिह शान्तिमवाप्नुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥ ५५ ॥

1स किल भीतिषु देवतमं स्मरन्
सकलभीतिमपोह्य​ सुखी पुमान् !
भवति किं प्रवदामि । तवे2क्षणे
परमदुर्लभमेव तदीक्षणम् ॥ ५६ ॥

स्मृतवतस्तव पादसरोरुहं
मृतितुदं पुरुषस्य विमुक्तता
तव करामिहतो मृतभैरवो
न हि स एष पुनर्भवमेष्यति ॥ ५७ ॥

दितिजसूनुममुं व्यसनार्दितं
सकृदरक्ष​दुदारगुणो भवान् ।
सकलगत्वमुदीरितमस्फुटं
प्रकटमेव विंचित्सुरभूत्पुरः ॥ ५८ ॥

सृजसि विश्वमिदं रजसात्मभूः
स्थितिविधौ श्रितसत्त्व उदायुधः ।
अवसि तद्धरणे 3तमसावृतो
हरसि देव तदा हरसंज्ञितः ॥ ५९ ॥

न च जनिर्न गुणास्तव तत्त्वतो
जगदनुग्रह​णाय भवादिकम् ।
तव पदं खलु वाङ्मनसातिगं
श्रुतिवचश्चकितं तव बोधकम् ॥ ६० ॥


1अ. सकल । 2अ. तवैक्षणैः ।

3अ. आदतो ।