बद्धेऽपे सेतुकरणे पुनराययुस्ता-
स्संसेवितुं पशुपतिं गिरिजासनाथम् ।
कुम्भोद्भवोऽपि विहेितोपहसः पुरस्ता-
त्तासाञ्च तस्य पुनरप्यभवद्विवादः ॥ १२ ॥
साधरणं पदमिदं न मनुष्ययोग्यं
देवादिसेव्यमिति यद्भ्रूवते भवत्यः ।
मर्त्याङ्गना भवत मर्त्यविदूषिकास्त-
च्छापं ददाविति मुनी रुषितो महात्मा ॥ १३ ॥
शान्तः पुमानित न पीडनमस्य कार्यं
शान्तोऽपि पीडनवशात्क्रुधमुद्वहेत्सः ।
शीतस्सुखोऽपि मथितः खलु चन्दनद्रु-
स्तीव्रं हुताशजनको भवति क्षणेन ॥ १४ ॥
संप्रार्थितश्चरणयोः पतिताः पुरस्ता
दन्वग्रहीत्करुणया किल कुम्भयोनिः ।
श्रीपार्वतीपतिपदाम्बुजभक्तियुक्ता-
स्तत्पूजनासु निरता भवतेति मन्दम् ॥ १५ ॥
यश्चोद्वहेत्स तु भविष्यति पूजकोऽस्मिन्
कन्या भवत्कुलभवास्सुकुमारगात्रीः ।
तस्मात्ततः प्रभृति तत्कुलकन्यकानां
भर्तार एव पशुपं किल पूजयन्ति ॥ १६ ॥
उद्दिश्य सेतुमनघं बहुपातकस्सन्
आजन्मनस्स्वकृतपातकराशिमुञ्चैः ।
सङ्कीर्तयन् व्रजाति यः परिमुच्यतेऽसौ
सेतुं विलोक्य सहसाखिलपातकेभ्यः ॥ १७ ॥
पृष्ठम्:शङ्करविजयः.djvu/१५१
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
127
नवमस्सर्गः