पृष्ठम्:शङ्करविजयः.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ नवमस्सर्गः ॥


श्रीगन्धमादनगरिः प्रथितोऽम्बुराशौ
संतिष्ठते जलगतः स्थिरतामुपेतः ।
देवोऽपि तत्र गिरिजासहितस्समास्ते
क्षेत्रं ततः खलु पुरातनमेतदाहुः ॥ १ ॥

1आगत्य तत्र शिवमर्चयतेऽनुघस्त्रं
दिव्यप्रसूनसहितोऽप्सरसां निकायः ।
देवं समर्च्य​ दिवमेव किल प्रयाति
स ह्यष्टधा गुणगतश्शिवभक्तियोगात् ॥ २ ॥

तस्मिन्समर्चयति देवमनन्यभक्त्या
कुम्भोद्भवो मुनिरथाऽऽगमदुग्रतेजाः ।
देवं समर्चिच​यिषुर्बहिरेव तस्थौ
पूजावसानसमयं प्रतिवीक्षमाणः ॥ ३ ॥

पूजां विधाय सहसाप्सरसां गणोऽयं
बाह्यस्थितं मुनिमवैक्षत पृष्टवांश्च ।
कस्त्वै किमर्थमिह चागमनं गिरौ ते ।
सोऽप्यब्र​वीद्द्विजवरोऽयमनिन्द्यरूपः ॥ ४ ॥

दृष्ट्वा शिवं सह समर्चयितुं भवान्या
देवश्शिवो गिरिजया सह सन्निधत्ते ।
मर्त्यो न सञ्चरणयोग्य इहाद्रिमध्ये
देवाधिकारवसुधेयमतश्चरामः ॥ ५ ॥


1अ. आगम्य ।