सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
117
अष्टमस्सर्गः

पृष्टो मुनीन्द्रोऽचकथत्कथां तां
हत्वा दशास्यं परिगृह्य सीताम् ।
विधाय लङ्काधिपतिं कनिष्ठं
रामो मुनीन्द्रैः पुरमाजगाम ॥ ९७ ॥

आयन्नसौ सेतुपथेन कोट्या
चिच्छेद सेतुं तिसृषु स्थलीषु ।
चापस्य लोके विदधत् स्वकीर्तिं
वाग्मी ह्यगस्त्यं वचनं बभाषे ॥ ९८ ॥

श्रीगन्धमादनगिरौ भगवन्प्रतिष्ठां
लिङ्गस्य कर्तुमनसो भव मे सहायः ।
स्थानं मुहूर्तदिवसौ तदपेक्षितञ्च​
ब्रूहि त्वमद्य जननीं विशदां शिलाञ्च ॥ ९९ ॥

पृष्टो मुनिः प्रतिवचस्समदत्त राज्ञे
त्वं राम मारुतिमुदाहर तच्छिलायै ।
लोकेषु नर्मदशिला प्रथिता प्रशस्ता
तां शीघ्रमागमय सन्निहितो मुहूर्तः ॥ १०० ॥

श्रुत्वा स मारुतिमथो निजगाद राम-
स्त्वं नर्मदातटमुपेत्य विशिष्टलिङ्गम् ।
तस्मादिहाऽऽनय सुखं कलशोद्भवो मां
सम्यङ्मुहूर्तमनुशास्ति समीपगं तत् ॥ १०१ ॥

तस्यानुशासनमथाऽऽदरतो गृहीत्वा
सङ्कोच्य​ गात्रमनघो नभ उत्पपात ।
गच्छन्नसावभिमतस्थलतोऽन्य 1देशं
वेगादवातरदनल्पतनुर्महात्मा ॥ १०२ ॥


1अ. देशे ।