xii
इत्थं शङ्करविजये काव्येऽस्मिन्व्यासशैलमुनिरचिते ।
सर्गो द्वितीय आसीत् प्राप्तस्समात्तविविधार्थे ॥ २ ॥
व्यासाचलेन रचितेे मधुरेे सुपद्येे
कव्ये ययौ द्रुतविलम्बितवांस्तृतीयः ।
सर्गो निसर्गविमलः परमोपमन्यु-
माहात्म्यभाषणपरः कथयाभिमोदी ॥ ३ ॥
श्रीशङ्करोत्पत्तिकथाभिधायी
तस्यैव जिष्णोर्विजयाभिधाने ।
सर्गश्चतुर्थोऽगमदत्र काव्ये
व्यासाचलेनारचिते रसार्द्रे ॥ ४ ॥
यत्नाद्धा महिमा प्रयागविषयो भट्टेडिताचार्ययोः
संवादीऽप्यघनोदनो निगदितो व्यावर्णितं सौगतम् ।
शास्त्रस्य श्रवणं विजेतुमिह तान् व्यासाद्रिसंप्रोदिते
श्रीमच्छङ्करदेशिकेन्द्रविजये सगोंऽगमत्पञ्चमः ॥ ५ ॥
भूभृद्गेहनिवेशनं गृहपतेर्गेहस्थभिक्षा क्रिया
वागीशाजनिपाणिपीडनमथो वादश्च तत्साक्षिकः ।
यत्राभाणि च शाङ्करेऽत्र विजये व्यासाचलप्रोदिते
षष्ठः सर्ग उपारमद्बहुकथासम्वन्धहृद्योऽनघः ॥ ६ ॥
प्रत्यादेशि च यत्र देहकरणप्राणात्मनामात्मता
लक्ष्यार्थैक्यमुदीरितं शिवगुरुः प्राशंसि शिष्येड्ययोः ।
संवादो विजयेऽत्र शाङ्करपदे सर्गो गतः सप्तमो
यत्राख्यायि च काञ्चिका समहिमा श्रीकालहस्तीश्वरः ॥ ७ ॥
यत्नाद्धापि च पुण्डरीकनगरं कावेरिकामाधवौ
पश्चान्मातुलमन्दिरस्य गमनं संभाषणं ज्ञातिभिः ।
पुस्तस्थापनरामनाथचरिते सम्प्रोदिते यत्नतः
श्रीमच्छङ्करदेशिकेन्द्रविजये सर्गोऽष्टमः प्रस्थितः ॥ ८ ॥