एतत् पृष्ठम् परिष्कृतम् अस्ति
97
सप्तमस्सर्गः
स तु जनो नयति स्म मृतं पुरे
हरिबलाश्रयणेन निगर्वितः ।
हरिजनान्न पराजितिरस्ति व-
स्स हि 1पतिर्जगतोऽस्य ममापि च ॥ १२३ ॥
किमपि नेच्छति कर्तुमुदारधी
2स्सति नये तदतिक्रमणेन सः ।
यदि करोति तथापि 3समीक्ष्य तं
हरिगुरुं सहनीयमुपाहितम् ॥ १२४ ॥
परिजनं रहसि स्थितमन्वशा-
त्पितृपतिः 4पितृवत्सलवत्सलम् ।
कुरुत यत्स्वपतेर्हितमादरा-
दितरदुज्ज्झत कृत्यपरायणाः ! १२९ ।।
पशुपतिर्मधुजित्कुलदेवते
नमत मामेिव ते प्रतिवासरम ।
तदुभयाश्रितमुक्तिपुरादिकं
त्यजत सज्जनसेवितमद्भुतम् ।। १२६ ।।
हरिहराङ्घ्रिसरोजनिषेविण-
स्त्यजत मानवियोगगतान्परम् ।
मम निदेशमनन्यगतात्मनः
परिजनाः परिपश्यत सादरम् ॥ १२७ ।।
शिवशिवेति वदंस्त्यजतीह य-
स्तनुमिमां बहुपुण्यसमाश्रयाम् ।
विपिनगस्त्वथ वा गृह्संश्रय
स्त्यजत दूरत एव गतैनसम् । १२८ ॥
1. क। गतिः । 2. का। स्थितिनयः । 3. अ। समीक्षितम् । 4. अ । वत्सकः ।
Sankara-7