तात्पर्यं ते गेहिधर्मेषु दृष्ट्वा
तत्संस्कारं साम्प्रतं शङ्कमानाः ।
भाष्ये कृत्वा वार्तिकं योजयेत्स
भाष्यं प्रायस्स्वीयसिद्धान्तशेषम् ॥ ५१ ॥
नास्त्येवासावाश्रमस्तुये इत्थं
सिद्धान्तोऽयं तावको वेदसिद्धः ।
द्वारि द्वाःस्थैर्वारितो भिक्षमाणा
वेश्मान्तस्ते न प्रवेशं लभन्ते ॥ ५२ ॥
इत्याद्यां तां किंवदन्तीं विदित्वा
तेषां नासीत्प्रत्ययस्त्वय्यनल्पे ।
स्वातन्त्र्यात्त्वं ग्रन्थमेकं महात्मन्
कृत्वा 1मह्यं दर्शय 2स्वात्मनिष्ठम् ॥ ५३ ॥
विद्वन्यद्वत्प्रत्ययः स्यादमीषां
शिष्याणां नो ग्रन्थसन्दर्शनेन ।
इत्थं प्रोक्तस्सोऽल्पकालेन भिक्षुः
ग्रन्थं कृत्वा दर्शयामास तस्मै ॥ ५४ ॥
ग्रन्थं दृष्ट्वा मोदमानो यतीन्द्र-
स्तञ्चान्येभ्यो दर्शयामास हृद्यम् ।
तेषाञ्चासीत्प्रत्ययस्तद्वदस्मिन्
यद्वञ्चान्यस्तत्त्वविद्यस्स तेन ॥ ५५ ॥
यत्राद्यापि श्रूयते मस्करीन्द्रै-
र्निष्कामात्मा यत्र नैष्कर्म्यसिद्धिः।
तन्नाम्नायं पप्रथे ग्रन्थवर्य-
स्तन्माहात्म्यात्सर्वलोकादृतोऽभूत् ॥ ५६ ॥
1का. मार्गं । 2अ. का. अध्यात्मनिष्ठम् । ! का. मार्ग । * अ. का. अध्यात्मनिष्ठम् ।