पृष्ठम्:शङ्करविजयः.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ix

शङ्करानन्दप्रणीतः शङ्करविजयनामा प्रबन्धो दशमः ।

सदानन्दप्रणीतः शङ्करदिग्विजयनामा प्रबन्ध एकादशः ।

पुरुषोत्तमभारतीप्रणीतः शङ्करविजयसङ्ग्रहनामा प्रवन्धो द्वादशः ।

तिरुमलदीक्षितप्रणीतः शङ्कराभ्युदयनामा प्रबन्धस्त्रयोदशः !

अनन्तकविप्रणीतः शङ्कराचार्यचरितनामा प्रबन्धश्चतुर्दशः ।

श्रीव्र​जराजप्रणीत शङ्करदिग्विजयसारनामा प्रवन्धः पञ्चदशः ।

श्रीगोविन्दाचलप्रणीतः शङ्करदिग्विजयसारनामा प्रबन्धः षोडशः ।

एवमन्येऽपि बहवः प्रबन्धाः स्तुत्यादिरूपा अपि चरितमेतदधिकृत्य सम्प्रणीताः समुपलभ्यन्ते ।

शिवरहस्यपतञ्जलिविजयादिप्रबन्धेष्वपि केषुचिच्चरितमिदं सङ्गृहीतं समालक्ष्यते । कथावस्तु च तत्र तत्र एकत्र सङ्गृहीतम​न्य​न्न विस्तार्यतेऽन्यत्र विस्तृतमपरत्र सङ्गृह्यते । एकत्रानुक्तं परत्र नूत्ननयोच्यतेऽन्यत्रोक्तं परत्र तथैवानूद्यते । परत्रान्यथोक्तमपरत्रान्यथाप्युच्यत इत्येवंनयेनावेदितम् । न चेयं नूत्ना सरणिर्यतो रामायणभारतादिकथावस्तुष्वप्येषव सरणिः कविवरैरादृता । अनुमोदिता च सा प्रामाणिकैः सहृदयवरैः ।

तदेतादृक्षु प्रबन्धेष्वन्यतमोऽतिप्राचीनोऽपि नाद्यावधि प्रकटतामुपनीतोंऽसौ श्रीव्यासाचलमुनिप्रणीतः शङ्करविजयनामा पद्यप्रबन्ध इति महदेवेदमाश्चर्यनिदानम् ।

अतिप्राचीनता चास्य प्रबन्धमिममधिकृत्यारचितैर्माधवीयशङ्करविजयादिषु परिदृश्यमानैः पद्यविशेषैरवगम्यते । तद्यथा-

संक्षेपशङ्करविजयनाम्नि श्रीमाधवाचार्यप्रणीते प्रवन्धे प्रथमे उपोद्धातात्मनि सर्गे प्रथमतः पद्यमिदं दरीदृश्यते --

"व्यासाचलप्रमुखपूर्विक​प​ण्डितक्ष्मा
भृत्संभृतोच्चतरकाव्यतरोः 1सुगूढात् ।
विद्वन्मधुव्रतसुखोरुरसानि सर्वा-
ण्यादातुमर्थकुसुमान्यहमक्षमोऽस्मि" ॥ इति ॥

1सुरीते: ।