पृष्ठम्:शङ्करदिग्विजयः.djvu/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
70
[षष्ठः
श्रीमच्छङ्करदिग्विजये

मन्थानाद्रिधुरंधरा श्रुतिसुधासिन्धोर्यतिक्ष्मापते-
ग्रन्थानां फणितिः परावरविदामानन्दसंधायिनी ।
इन्धानैः कुमतान्धकारपटलैरन्धीभवचक्षुषां
पन्थानं स्फुटयन्त्यकाण्डकमभात्तर्कार्कविद्योतितैः ॥ १०६

आ सीतानाथनेतुः स्थलकृतसलिलद्वैतमुद्रात्समुद्रा-
दारुद्राकर्षणाद्रागवनतशिखराद्भोगसान्द्रान्नगेन्द्रात् ।
आ च प्राचीनभूमीधरमुकुटतटादा तटात्पश्चिमाद्रे-
रद्वैताद्यापवर्गा जयति यतिधरापोद्धृता ब्रह्मविद्या ॥ १०७

इति श्रीमाधवीये तद्ब्रह्मविद्याप्रतिष्ठितिः ।
संक्षेपशङ्करजये षष्ठः सर्ग उपारमत् ॥ ६ ॥
आदितः श्लोकाः 663.


अथ सप्तमः सर्गः ॥७॥

व्यासदर्शनादिचरितवर्णनम् ॥

स जातु शारीरकसूत्रभाष्यमध्यापयन्नभ्रसरित्समीपे ।
शिष्यालिशङ्काः शमयन्नुवास यावन्नभोमध्यमितो विवस्वान् ॥ १

श्रान्तेष्वथाधीत्य शनैर्विनेयेष्वाचार्य उत्तिष्ठति यावदेषः ।
तावद् द्विजः कश्चन वृद्धरूपः कस्त्वं किमध्यापयसीत्यपृच्छत् ॥ २

शिष्यास्तमूचुर्भगवानसौ नो गुरुः समस्तोपनिषत्स्वतन्त्रः ।
अनेन दुरीकृतभेदवादमकारि शारीरकमूत्रभाष्यम् ॥ ३

स चाब्रवीद्भाष्यकृतं भवन्तमेते वदन्त्यद्भुतमेतदास्ताम् ।
अथैकमुच्चारय पारमार्षं यतेऽर्थतस्त्वं यदि वेत्थ सूत्रम् ॥ ४

तमब्रवीद्भाष्यकृदग्र्यवाचं सूत्रार्थविद्भयोऽस्तु नमो गुरुभ्यः ।
सूत्रज्ञताहंकृतिरस्ति नो मे तथाऽपि यत्पृच्छसि तद्ब्रवीमि ॥