पृष्ठम्:शङ्करदिग्विजयः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ५]
53
संन्यासग्रहणम्

क्षीरं ब्रह्म जगच नीरमुभयं तद्योगमभ्यागतं
दुदें त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेष विशेषदोषलहरांमासेदुष शेमुषीं
सोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥ ११५

नीरक्षीरनयेन तथ्यवितथे संपिण्डते पण्डित -
दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः ।
हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ता: समस्ताः स्थिताः
जृम्भान्निम्बफलाशनैकरसिकान् काकानमन्मन्महे ॥ ११६

दृष्टिं य: प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां
नालीकप्रियतां प्रयाति भजते मित्रत्वमव्याहतम् ।
विश्वस्योपकृतेर्विलुम्पति सुहृच्चक्रस्य चार्ति घनां
हंसः सोऽयमभिव्यक्ति महतां जिज्ञास्यमर्थ मुहुः ॥ ११७

हँसभावमधिगम्य सुधीन्द्रे तं समर्चति च संसृतिमुत्यै ।
संचचाल कथयन्त्रित्र मेघश्रञ्चलाचपलतां विषयेषु ॥११८

एष नः स्पृशति निष्ठुरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै ।
अस्मदीयमपि पुष्पमनैषादित्यरोधि नलिनीपतिरब्दैः ॥ ११९

वारिवाहनिवहे क्षणलक्ष्यश्रीररोचत किलाचिररोचिः ।
अन्तरङ्गगतबोधकलेत्र व्याप्तस्य विदुषो विषयेषु ॥१२०

किं नु विष्णुपदसंश्रयतोऽन्दा ब्रह्मतामुपदिशन्ति सुहृद्भयः ।
यन्निशम्य निखिलाः स्वनमेषां बिभ्रति स्म किल निर्भरमोदान् ॥ १२१

देवराजमपि मां न यजन्ति ज्ञानगर्वभरिता यतयोऽमी ।
इत्यमर्षवशगेन पयोदस्यन्दनेन धनुराविरकारि ॥१२२

आत्रवु: कुटजकन्दलबाणास्फीतरेणुकलिता वनवात्याः ।
सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलासाः ॥ १२३

बभ्रमुस्तिमिरसच्छविगात्रा चित्रकार्मुकभृतः खरघोषाः ।
ध्यानयज्ञमथनाय यतीनां विद्युदुज्ज्वलदृशो घनदैत्याः ॥ १२४