पृष्ठम्:शङ्करदिग्विजयः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
14
[द्वितीयः
श्रीमच्छङ्करदिग्विजये

विद्याधिराजमघपण्डितनामधेयौ संप्रत्ययं व्यतनुतामभिपूज्य दैवम् ।
सम्यङ्मुहूर्तमवलम्ब्य विचारणीया मौहूर्तिका इति परस्परमूचिवांसौ ॥
उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते तौ संमुदं बहुमवापतुराप्तकामौ ।
तत्रागतो भृशममोदत बन्धुवर्गः किं भाषितेन बहुना मुदमाप वर्गः ॥
तौ दंपती सुवसनौ शुभदन्तपती संभूषितौ विकसिताम्बुजरम्यवक्तौ ।
सत्रीडहासमुखवीक्षणसंमहृष्टौ देवाविवापतुरनुत्तमर्म नित्यम् ॥ ३५
अग्नीनथाधित महोत्तरयागजातं कर्तुं विशेषकुशलैः सहितो द्विजेशः ।
तत्तत्फलं हि यदनाहितहव्यवाहः स्यादुत्तरेषु विहितेष्वपि नाधिकारी।।
यागैरनेकैर्बहुवित्तासध्यैविजेतुकामो भुवनान्ययष्ट ।
व्यस्मारि देवैरमृतं तदाशैदिने दिने सेवितयज्ञभागैः ।। ३७
संतर्पयन्तं पितृदेवमानुषांस्तत्तत्पदार्थैर भिवाञ्छितैः सह ।
विशिष्टवित्तैः सुमनोभिरश्चितं तं मेनिरे जगमकल्पपादपम् ॥ ३८
परोपकारव्रतिनो दिने दिने व्रतेन वेदं पठतो महात्मनः ।
श्रुतिस्मृतिप्रोदितकर्म कुर्वतः समा व्यतीयुर्दिनमाससंमिताः ।। ३९
रूपेषु मारः क्षमया वसुन्धरा विद्यासु वृद्धो धनिनां पुरःसरः ।
गर्वानभिज्ञो विनयी सदा नतः स नोपलेभे तनयाननं जरन् ।
गावो हिरण्यं बहुसस्यमालिनी वसुन्धरा चित्रपदं निकेतनम् ।
संभावना बन्धुजनैश्च संगमो न पुत्रहीनं बहवोऽप्यमृमुहन् । ४१
अस्यामजाता मम सन्ततिश्चेच्छरद्यवश्यं भवितोपरिष्टात् ।
तत्राप्यजाता तत उत्तरस्यामेवं स कालं मनसा निनाय ॥ ४२
खिन्दन्मनाः शिवगुरुः कृतकार्यशेषो जायामचष्ट सुभगे किमतः परं नौ।
साङ्गं वयोऽर्धमगमत्कुलजे न. दृष्टं पुत्राननं यदिहलोक्यमुदाहरन्ति ।। ४३
एवं प्रिये गतवतोः सुतदर्शनं चेत्पञ्चत्वमैष्यदथ नौ शुभमापतिष्यत् ।
अस्याभ्युपायमनिशं भुवि वीक्षमाणो नेक्षे ततः पितृजनिर्विफला ममाभूत् ।।