पृष्ठम्:शङ्करदिग्विजयः.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १४]
151
पद्मपादतीर्थयात्रावर्णनम्

गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः ।
निरतिशयोज्ज्वलयुक्तियुता सा पयि किल हा विननाश कृशानौ ॥ १६३

प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः ।
न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगवन्मम बुद्धिः ॥ १६४

 कृपापारावारं तव चरणकोणाग्रशरणं
  गता दीना दुनाः कति कति न सर्वेश्वरपदम् ।
 गुरो मन्तुर्नन्तुः क इव मम पापांश इति चे
  न्मृषा मा भाषिष्ठाः पदकमल चिन्ताव धिरसौ ॥ १६५

इति वादिनमेनमार्यपाद: करुणापूरकरम्भितान्तरङ्गः ।
अमृता ब्धिसखैरपास्तमोहैर्वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥१६६

विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः ।
विदितः प्रथमं मयाऽयमर्थ: कथितयाङ्ग सुरेशदेशिकाय ॥१६७

पूर्व शृङ्गमाघरे मत्समीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी ।
सा मे चित्तान्नापयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदार्थः ॥

 आश्वास्येत्यं जलजचरणं भाष्यकृत्पञ्चपादी-
  माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्व्या ।
 नैतच्चित्रं परमपुरुषेऽव्याहतज्ञानशक्तो
  तस्मिन् मृले त्रिभुवनगुरौ सर्वविद्यामवृत्तेः ॥१६९

प्रसभंस विलिख्य पञ्चपाद परमानन्दभरेण पद्मवादः ।
उदतिष्ठदतिष्ठदभ्यरोदीत् पुनरुद्रायति तु स्म नृत्यति स्म ॥१७०

कविताकुशलोऽथ केरलक्ष्माकमनः कञ्चन राजशे वराख्यः ।
मुनिवर्यममुं मुदं वितेने निजकौटीर निघृष्टपन्नखाग्यः ॥१७१

प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः ।
अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥ १७२

मुखतः पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूपः ।
वद किं करवाणि किङ्करोऽहं वरदेति प्रणमन् व्यजिज्ञपच्च ॥ १७३