पृष्ठम्:शङ्करदिग्विजयः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ११]
119
उग्रभैरववधः

आकर्ण्य तां पद्मपदस्य वाणीमानन्दमग्नैरखिलैरभावि ।
जगर्ज चोच्चैर्जगदण्डभाण्डं भूम्ना स्वधाम्ना दलयन् नृसिंहः ॥ ५२
ततस्तदाभटिचलत्समाधिः स्वात्मप्रबोधोन्मथितत्र्युपाधिः ।
उन्मील्य नेत्रे विकरालवक्त्रं व्यलोकयन्मानवपञ्चवक्त्रम् ॥ ५३
चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राब्जकनन्निटालम् ।
सहोद्यदुष्णांशुसहस्रभासं विध्यण्ड विस्फोटकृदट्टहासम् ॥ ५४
नखाग्रनिर्भिन्नकपालिवक्षःस्थलोच्चलच्छोणितपङ्किलाङ्कम् ।
श्रीवत्सवत्सं गलवैजयन्तीश्रीरत्नसंस्पर्धितदन्त्रमालम् ॥ ४५
सुरासुरत्रासकरातिघोरस्वाकारसारव्यथिताण्डकोशम् ।
दंष्ट्रकरालानननिर्यदग्निज्वालालिसंलीढनभोवकाशम् ॥ ५६
स्वरोमकूपोद्गतविस्फुलिङ्गप्रचारसंदीपितसर्वलोकम् ।
जम्भद्विडुज्जृम्भितशम्भुदम्भसंस्तम्भनारम्भकदन्तपेषम् ॥ ५७
मा भूदकाण्डे प्रलयो महात्मन् कोपं नियच्छेति गृणद्भिरारात् ।
ससाध्वसैः प्राञ्जलिभिः सगात्रकम्पैर्विरिञ्च्यादिभिरर्थ्यमानम् ॥ ५८
विलोक्य विद्युच्चपलोग्रजिह्वं यतिक्षितीशः पुरतो नृसिंहम् ।
अभीतिरैडिष्ट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनद्धकण्ठः ॥ ५९
नरहरे हर कोपमनर्थदं तव रिपुर्निहतो भुवि वर्तते ।
कुरु कृपां मयि देव सनातनीं जगदिदं भयमेति भवदृशा ॥ ६०
तव वपुःकिल सत्वमुदाहृतं तव हि कोपनमण्वपि नोचितम् ।
तदिह शान्तिमवाप्नुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥ ६१
सकलभीतिषु दैवतम स्मरन् सकलभीतिमपोह्य सुखी पुमान् ।
भवति किं प्रवदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ॥ ६२
स्मृतवतस्तव पादसरोरुहं मृतवतः पुरुषस्य विमुक्तता ।
तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेष्यति ॥ ६३