पृष्ठम्:शङ्करदिग्विजयः.djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः १]
5
उपोद्घातः


वर्णाश्रमसमाचारान्द्विषन्ति ब्रह्मविद्विषः ।
ब्रुवन्त्याम्नायवचसां जीविकामात्रतां प्रभो ॥ ३२

न सन्ध्यादीनि कर्माणि न्यासं वा न कदाचन ।
करोति मनुजः कश्चित्सर्वे पाखण्डतां गताः ॥ ३३
[१] श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये ।
क्रियाः कथं प्रवर्तेरन् कथं क्रतुभुजो वयम् ॥ ३४

शिवविष्ण्वागमपरैर्लिङ्गचक्रादिचिह्नितैः ।
पाखण्डैः कर्म संन्यस्तं कारुण्यमिव दुर्जनैः ॥ ३५

अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् ।
श्रुतिः साध्वी मदक्षीबैः का वा शाक्यैर्न दूषिता ॥ ३६

सद्यः कृत्तद्विजशिरःपङ्कजार्चितभैरवैः ।
न ध्वस्ता लोकमर्यादा का वा कापालिकाधमैः ॥ ३७

अन्येऽपि बहवो मार्गाः सन्ति भूमौ सकण्टकाः ।
जनैर्येषु पदं दत्त्वा दुरन्तं दुःखमाप्यते ॥ ३८

तद्भवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् ।
वर्त्म स्थापयतु श्रौतं जगद्येन सुखं व्रजेत् ॥ ३९

इत्युक्त्वोपरतान्देवानुवाच गिरिजाप्रियः ।
मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ॥ ४०

  1. सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
    अनेन प्रसविष्यध्यमेष वोऽस्त्विष्टकामधुक् ॥
    देवान्भावयतानेन ते देवा भावयन्तु वः ।
    परस्परं भावयन्तः श्रेयः परमवाप्त्यथ ॥
    यज्ञो दानं तपः कर्म पावनानि मनीषिणाम् ।
    सौविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ॥
    ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥
    इत्यादीनी भगवद्गीतावचनानि यज्ञादीनामवश्यानुष्ठेयत्वमुपदिशन्ति ।