पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

25yerfc1a1 [Lagatar - Januar/JL7ruralisex व्याक्तविवेके द्वितीयो विमर्शः । “उक्खअदुमं व सेलं हिमहअकमलाअरं व लच्छिविमुक्कम् ।। पीअमइरव चसअ बहुलपओस व मुद्धअंदविरहिअम् ।। इत्यत्र ह्युपमानवाचिभ्या शब्दाभ्यामेवानन्तरमिवशब्दः प्रयोक्तव्यः न साधार- णधर्मवाचिभ्या यथात्रैव कमलाकरबहुलप्रदोषशब्दाभ्यामिति । स हि यदनन्तरं श्रूयते तत्रैवोपमानतामाधातुमलमित्यन्यथार्थस्यासङ्गतिप्रसङ्ॻात् । न हि भवति गौ- रमिवेन्दुबिम्ब तव मुखमिति । न चासौ तथा प्रयुक्त इति क्रमभेदो दोषः । तेन ‘सेलं उकखअदुम’मिति ‘चसअ व पीअमइर'मिति च पाठः पठितव्यॱ । यथा वा-‘उपा- लब्धेवोचै्चगिरिति शीपतिमसा’बिति । अत्र हि इतीबोपालब्ध क्षितिधरपतिः श्रपिातमसाविति पाठॱ श्रेयान् यतो नात्रोपालब्धेवोश्वर्गिरिपतिरित्येतत्पर्यन्तोक्तिरव- च्छतुमोभमता। न च पदसम्बन्धस्य पुरुषाधीनत्वात् प्रापिपयिषुपदेनैवास्याभिस- म्वन्धो न गिरिपतिपदेनेति शक्यते वक्तु तस्य तदधीनत्वासिदेरूपपादयिप्यमाण- त्वात् । यथा च--- •प्रतीक्ष्य च प्रतीक्ष्यायै पितृप्वसे न्सुतस्य ते ।। सहिप्ये शतमागांसि प्रत्यश्रौषी. किलेति यत् ।” इति । अत्रापि हि ‘सहिष्ये शतमागांसीत्यभ्युपैर्यत् किल स्वय'मिति युक्तः पाठ इति । अनेनैव तज्जातीयार्थानामन्येषामव्ययानां प्रयोगनियमो व्याख्यात इति तेषामपि प्रक्रमभेदो दोष एव । तद्यथा ---- कि क्रामेष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।। | तावदम्य न ममौ नभस्तले लङ्घितार्कशाशमण्डलः क्रमः ।। इत्यत्रेत्थंशब्दस्य । स हि वामनशब्दादनन्तर द्रष्टव्यः । यथा च --- “स्तम्बेरमः पारिणिन .रसावुपैति पिदैरगद्यत ससम्भ्रममेवमेका इत्यत्रैवशब्दस्य । स छुपेतीत्यतोऽनन्तर द्रष्टव्यः । तेन ‘स्तम्बेरमः परिणिनंसुरसौ समभ्येत्येव ससम्भ्रममभण्यत काापे षिद्वैरिति युक्तः पाठः । अत्र च यत् प्रती- तिवैचित्र्यं स मतिमतामेव विषय. ।। उक्तिस्वरूपावच्छेदफलो यत्रेतिरष्यिते । न तत्र तस्मात् प्राक् किञ्चिदुक्तेरन्यत् पद वदेत् ।। ३३ ।। १. उत्खातु ममिव शैल हिमहतकमलाकरमिव लक्ष्मीविमुक्तम् । पीतमदिरामव चषक बहुलप्रदोषमिव मुग्धचन्द्रविरहितम् ॥ Áखखkha