पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिीविवेके द्वितीयो विमर्शः । न तु सापेक्षताद्यन्यदोषजातनिवृत्तये । पित्रोः सुतेन वन्द्यत्वे सा हि न्यायेन सिध्यति ।। २८ ।। इति सङ्ग्रहश्लोकाः । काव्यकाञ्चनकषाश्ममानिना कुन्तकेन निजकाव्यलक्ष्मणि । यस्य सर्वनिरवद्यतोदिता श्लोक एष स निदर्शितो मया ॥ २९ ॥ प्रक्रमभेदोऽपि शब्दानौचित्यमेव । स हि यथाप्रक्रममेकरसप्रवृत्तायाः प्रतिपत्तप्र्ती- तेरुत्खात इव परिस्खलनखेददायी रसभङ्गाय पर्यवम्यति । किञ्च सर्वत्रैव शब्दा- र्थव्यवहारे विद्वाद्भिरपि लौकिकक्रमोऽनुसर्त्तव्यः । लोकश्च मा भूद्रसाम्वादप्रतीतेः परिम्लानतेति यथाक्रममेवैनमाद्रियते नान्यथा । स चायमनन्तप्रकारः सम्भ- वति । प्रकृतिप्रत्ययपर्यायादीनां तद्विषयभावाभिमतानामानन्त्यात् । तत्र प्रकृति- प्रक्रमभेदो यथा‌ ‌-‌-- "सततमनभिभाषणं मया ते परिपणितं भवतीमनानयन्त्या। गतधृतिरवलाम्बितु वतासूननलमनालपनादह भवत्या ।।" अत्र हि भाषतिलपत्योरुभयोरपि वचनार्थत्वाविशेषेऽपि यदा भाषतिप्रयोगप्रक्रमेण वस्तु वक्तुमुपक्रान्तं तदा तेनैव निर्वाहः कर्तुमुचितो नेतरेण । एवविधस्य प्रक्रमा- भेदाख्यम्य शब्दौचित्यस्य विध्यनुवादप्रेकारत्वोमगमात् । यथा -- “ताळा जाअन्ति गुणा जाळा दे सहिअएहि घेप्पन्ति । रइकिरणाणुग्गहिआइ होन्ति कमळाइ कमळाइ ॥” यथा च ---- "एमेअ जणो तिम्सा देउ कवोलोपमाइ शशिबिम्बम् । परमत्थविआरे उण चन्दो चन्दो विअ वराओ ।।" अत्र ह्यत्कर्षापकर्षमात्रविवक्षया परिकल्पितभेदेऽप्येकस्मिन्नर्थे विधेयानुवाद्यविषयेणै- केनैवाभिधानेन विध्यनुवादभावो भणित इति प्रक्रमाभेदप्रकार एवायमिति मन्त- व्यम् । केवलं पर्यायप्रक्रमभेदनिवृत्तये शशिबिम्बामित्यत्र चन्दमिणमिति पाठ परि- गमयिव्यः । यथा च - “एवमुक्तो मन्त्रिमुख्यै रावण. प्रत्यभाषत ।" १. ‘दभावप्र' इति खपुस्ते पाठ.. २ तदा जायन्ते गुणा यदा ते सहृदयगृह्मन्ते ।

 रविकिरणानुगृहीतानि भवन्ति कमलानिकमलानि ॥

३ एवमेव जनस्तस्या ददाति कपोलापमायां शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराक. ॥