पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१ तद्यथा--- व्यक्तिविक द्वितीय विमर्शः । यश्चैकवाक्ये कर्तृत्वेनोक्तो यश्चेदमादिभिः । तुच्छब्देन परामर्शो न तयोरुपपद्यते ।। ६ ।। यतोऽध्यक्षायमाणोऽर्थः स तेभ्यः प्रतिपद्यते । न चासो तत्परामर्शसहिप्णुरसमन्वयात् ।। ७ ।। तद्यथा -- "स वः शशिकलामौलिस्तादात्म्यायोपकल्पताम् । द्वैतबुद्धिमपात्येमाम् सा हि सर्वापदां पदम् ।।” अत्रैवेमामित्यत्रैतददसोः प्रयोगे तयोरप्येतदेवोदाहरणं द्रष्टव्यम् । अत्रे चैका- त्म्यायेति एषा हि विपदां पदमिति च पाठौं पठितव्यौ । यदः पुनरार्थो द्विप्र- कारः सम्भवति प्रक्रान्तवम्तुकल्पिततत्कर्मादिविषयेण तदा तम्याभिसम्बन्धात् यथा ‘यं सर्वशैला' इत्यादौ ‘स हिमालयाम्ऽस्ती'ति । यथा च 'आत्म जानाति यत् पाप माता जानाति यत् पिता' इत्यादौ तदात्मा जानातीत्यर्थावगते । “यत् तदूर्जितमत्युग्र क्षात्र तेजोऽस्य भूपते. । दीव्यताक्षैस्तदानेन नून तदपि हारितम् ।।" इत्यादौ च यद्यपि तदो द्विरुपादानं सकृच्च यदस्तथापि तत्र यथोक्तसम्बन्धद्वै- विध्यानतिवृत्तिः । तथा हि यद प्रकंस्यमानविषयेण तदपीत्यनेन तदाभिसम्बन्धा- च्छाब्दः । यत्तदित्यस्य तु तदः प्रसिद्धतेजोनिष्ठतयोपकल्पितेन यदाभिसम्बन्धादा- र्थः। एवञ्च योऽयमिह ‘येोऽसावि'त्यत्र यदः केवलस्थैव प्रयोग. स केनाभिसम्बध्यता न ह्यत्र मुक्तके तदभिसम्बन्धसहः प्रक्रान्तः कश्चिदर्थ सम्भवति यदभिसम्बन्धोऽस्य परिकल्प्येत । न च प्रकंस्य मानाम्बिकाकेसरिविषयोपकाल्पतेन तदास्याभिसम्बन्धः सम्भवी तदुपादान एव तत्सम्बन्धप्रतीतिदर्शनात् । इतरथा यत्कोपाझौ शल- भतां लेभे कामः शिवोऽवत'दित्यत्रापि शिवविषयतयोपकल्पितेन तदा तत्सम्ब- न्धप्रतीतौ सङ्गतार्थतैव स्याद् इत्ययुक्त एवायं यदः प्रयोगः । “मीलितं यदभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् । उद्यता जयिमें कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥” । इत्यत्र तु पादयोः प्रमादजः पौपर्वापर्यविपर्यय एवायुक्तो द्रष्टव्य., न यदो यथोक्त- विषयातिक्रमः । ननु केनेदमुक्त यदः केवलस्यैवात्र प्रयोगो न तद इति यादता तदभिन्नार्थोऽत्रादश्शब्दः प्रयुक्त एवासाविति । अतश्च तदपेक्षया वाक्यार्थविश्रा- न्तेर्न कश्चिदुक्तदोषावकाशः । साधो ! दुराशैष । तस्य तदभिन्नार्थत्वासिद्धेः । | १, ‘श इति' इति खपुस्तके पाठः,