पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ व्यक्तिविवेके प्रथमो विमर्शः । न ह्यनुन्मत्तः कश्चित् क्वचित् किञ्चित् कथञ्चित् साधर्म्यगनुत्पश्यन्नेवाकस्मात् त- त्वमारोपयतीति परिशीलितवत्कृण्वरूपः प्रतिपत्ता तत्त्वारोपनिमित्त सादृश्यमात्रमेव प्रतिपत्तुमर्हति न तत्त्वम् । तद्धि वाच्यतयोपक्रम एव भासते, न प्रतीतिपर्यव- सानास्पद भवितुमर्हति, तस्य बाधोपपत्तेः । तस्य चैवविधस्योपक्रमस्य निमित्त साधर्म्यमात्रप्रतिपादनम् । प्रयोजनञ्च लाघवेन वाहीकादौ गवादिगतजाड्यादिधर्म- प्रतिषादनं यस्मादतिदेशप्रकारोऽयमर्थान्तरे शब्दविनिवेशो नाम । यदुक्तम् -

  ‘जातिशब्दोऽन्तरेणापि जाति यत्र प्रयुज्यते ।
   सम्बन्धिसदृशाद्धमीत् त गौणमपरे विदु.॥'

एब ‘कृशाङ्गया सन्ताप वदति बिसिनीपत्रशयनम्' इत्यादाववगन्तव्यम् । अ- विनाभावावसायपूर्विका ह्यन्यतोSन्यस्य प्रतीतिरनुमामित्यनुमानलक्षणमुक्तम् । त- छात्रोपलभ्यत एव । तथा हि वदतीत्यादौ वदनादेरर्थान्तरस्य प्रकाशादेः प्रतीतिः । तयोश्चाविनाभाव कार्यकारणभावकृत प्रकाशनस्य वदनकार्यत्वप्रसिद्धेः । न च वद- तेः प्रकाशो वाच्य इति शक्य वक्तु तस्य तत्रासभितत्वात् प्रकाशस्य चातत्त्वात् । न चायं स्वार्थमेव प्रतिपादयति, तस्य बाधोपपत्तेः । अथोपचारत उपादानान्यथानुपपत्या वदनक्रियायाः सदृशे प्रकाशनाख्ये क्रियान्तरे वर्ततेऽयं वदतिरित्युच्यते । तर्ह्य- न्यथानुपपत्त्या वदनादेः प्रकाशादिः प्रतीयमानोऽनुमेय एव भवितुमर्हति, अर्थापत्ते रनुमानान्तर्भावाभ्युपगमादित्युक्तम् । तस्माद्योऽथ वाहीकादौ गवादिसाधर्म्यावगमः स तत्त्वारोपान्यथानुपपत्तिपरिकल्पितोSनुमानस्यैव बिपयः । न शब्दव्यापारस्येति स्थितम् ।

   गोत्वारोपेण बाहीके तत्साम्यमनुमीयते।
   को ह्यतस्मिन्नतत्तुल्ये तत्त्वं व्यपदिशेद् बुध. ।। ४२ ॥

इति सङ्ग्रहश्लोकः । गङ्गायां घोष इत्यादावपि गङ्गादयोऽर्थाः स्वात्मन्यनुपपात्ति- बाधितघोषाद्याधिकरणभावास्तदुपादानसामर्थ्यात् सम्बन्धमात्रपरिकल्पिततत्त्वरोपं तदधिकरणभावोपगमयोग्यमर्थान्तरमेव तटादिरूपमनुमापयन्ति । न हि तत्साह- श्यमेवैकं तत्त्वारोपनिबन्धनमिष्यते किन्तर्हि तत्सम्बन्धादिरपीति तत्सम्बन्धमात्र- समारोपिततद्भावस्तटादिरेव घोषाद्यधिकरणभावोपादानान्यथानुपपत्त्या गङ्गादीना- मर्थानामनुमेय एव भवितुमर्हति । शब्दः पुनः स्वार्थाभिधानमात्रव्यापारपर्यवसि- तसामर्थ्यो नार्थान्तरस्य तटादेर्वार्तामपि वेदितुमुत्सहते, किं पुनः संस्पर्शामित्युक्तम् । प्रयोजनं पुनरस्यैवंविधस्योक्तिवैचित्र्यपरिग्रहस्य तटादावारोपविषये वस्तुन्यारो-