पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके प्रथम विमर्शः ।

अर्थस्य विशिष्टत्वं शब्दः सविशेषणस्तदः पुंस्त्वम् । द्विवचनवाशब्दौ च व्याक्तिर्ध्वनिनाम काव्यवैशिष्ट्यम् ।। २३ ।।। वचनञ्च कथनकर्तुः कथिता ध्वनिलक्ष्मणीति दश दोषाः ।। ये त्वन्ये तद्भेदप्रभेदलक्षणगता न ते गणिताः ॥ २४ ॥ तदेवं लक्षणदोषदुष्टपदव्युदासेन परिशुद्धो ध्वनिलक्षणवाक्यस्यायमर्थोऽवतिष्ठते । वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति । सम्बन्धतः कुताश्चत् सा काव्यानुमितिरित्युक्ता ॥ २६ ।।। इति । एतच्चानुमानस्यैव लक्षणं नान्यस्य । यदुक्त - "त्रिरूपालिङ्गाख्यान परार्थानुमानमि"ति केवलं संज्ञाभेद । काव्यस्यात्मनि सज्ञिनि रसादिरूपे न कस्यचिद्विमतिः ।। संज्ञायां सा केवलमेषापि व्यक्त्ययोगतोऽस्य कुतः । यतः-- शब्दस्यैकाभिधा शक्तिरर्थरयैकैव लिङ्गता । न व्यञ्जकत्वमनयो. समस्तीत्युपपादितम् ॥ २६ ।। उक्तं वृथैव शब्दस्योपादानं लक्षणे ध्वने ।। न हि तच्छक्तिमूलेष्टा काचिदर्थान्तरे गतिः ॥ २७ ॥ न चोपसर्जनत्वेन तयोर्युक्तं विशेषणम् ।। यतः काव्ये गुणीभूतव्यङ्गयेऽपीष्ठेव चारुता ॥ २८ ॥ अत एव विशेषस्योपादानमपि नार्थवत् । संज्ञासम्बन्धमात्रैकफलं तदिति गम्यते ।। २९ ॥ तदा चातिप्रसङ्गः स्यात्संज्ञानां यस्य कस्यचित् ।। यद्वाक्यवार्त्तिनोऽन्यस्य विशेषस्य तदाप्तितः ॥ ३० ॥ तस्मात् स्फुटतया यत्र प्राधान्येनान्यथापि वा । बाच्यशक्त्यानुमेयोऽर्थो भाति तत् काव्यमुच्यते ॥ ३१ ॥ वाच्यप्रत्येययेनोरित व्यङ्ग्यव्यञ्जकतार्थयोः ।। तयोः प्रदीपघटवत् साहित्येनाप्रकाशनात् ।। ३२ ।। पक्षधर्मत्वसम्बन्धव्याप्तिसिद्धिव्यपेक्षणात् ।। वृक्षत्वाग्रत्वयोर्यद्वद् यद्वचानलधूमयोः ॥ ३३ ॥ १, ‘वाक्य” इति खपुस्तके न पट्यते