पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्याकेविवेके प्रथमो विमर्शः ! व्यपदेशः सोऽनुपपन्नः । स हि प्रतीयमानार्थेकविषयो युक्त., तस्यैव काव्यजीवि- तभूतस्य प्रधानतया ध्वनित्वेनेष्टत्वात् । यत् स एवाह काव्यस्यात्मा ध्वनि- रिति । ‘काव्यस्यात्मा स एवार्थ इति' । 'प्रतीयमाना त्वन्यैव भूषा लज्जेव यो- षित' इति च । तेन ‘थः काव्यन्य व्यवस्थित इति तत्रोचितः पाठः । किञ्चात्र वाशब्दो विकल्पार्थो वा स्यात् समुच्चयार्थो वा । न तावद्विकल्पार्थः पक्षान्तरा- सम्भवस्य व्युत्पादितत्वात् । सम्भवे वान्य द्विवचनानुपपात्त', तयोस्समुच्चया- भावाद् यथा “शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत्' इत्यत्र बहुवच- नस्य समुच्चयार्थत्वे । यत्र शब्दार्थयोरेकैकस्य व्यञ्जकत्व तत्रे ध्वनित्वमिष्ट न स्यात् । शब्दस्य च विशेषणमनुपादेयमेव स्याद् अर्थम्य विशिष्टत्वेनैव त- दवंगतेः । अत एव च लक्षणवाक्ये दीपकाद्यलङ्कारमुखेनोपपद्याभिव्यक्ती ध्व- नित्वमिच्छता गुणीकृतात्मनोऽभिधाया उपादान न कृतम् । अन्यथा तदपि क- र्तव्यं स्यात् । तदाश्रितत्वादर्थयार्थाश्रितत्वाञ्चालङ्काराणामति पक्षद्वयमप्यनुपप- नम् । अत्र केचिद्विद्वन्मानिनो द्विवेचनसमर्थनामनोरथााक्षप्तचित्ततया वाच्यवाच- कयोर्विस्मृतसुप्रसिद्धप्रतीतिक्रमभावान्तयोरेककालिकता शव्दम्याक्तनयनिरन्तामपि व्यञ्जकता पश्यन्तस्तान्नबन्धनां ध्वनिभेदयोरविवक्षितविवाता-यपरवाच्ययोर्ध्व- ननव्यापार प्रति पर्यायेणान्यान्यसहकारितां तदपेक्षा चानयो प्रधानेतरतामु- पकल्प्य सहकारितया व्यक्तिक्रिया प्रत्युभयोरपि कर्तृत्वात् तदपेक्षो व्यङ्ग इति द्विवच- ननिर्देशः प्राधान्यापेक्षश्च, यत्रार्थ. शब्दो वेति' विकल्प इति मन्यमाना व्यङ्क इति द्विवचनेनेदमाह --यद्यप्यविवक्षितवाच्ये शब्द एव व्यज्ञकस्तथाप्यर्थस्य सहका- रिता न त्रुट्यति । अन्यथाज्ञातार्थोऽपि शब्दस्तव्यञ्जकः स्यात् । विवक्षितान्यपर- वाच्ये च शब्दस्यापि सहकारित्व भवत्येव । विशिष्टशव्दाभिधेयतया विना तस्या- बैस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोर्खननव्यापार । एवञ्च भट्टनायकेन द्वि- वचन यद् दूषित तद् गजनिमीलिकयैव । अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेण' इति यदाहुस्तद् भ्रान्तिमात्रमूल न तत्त्वमित्यलमबस्तुनिर्बन्धेन । किञ्च तमिति तदः पुंस्त्वेन निर्देशोऽनुपपन्न । तस्यानन्तरप्रक्रान्तार्थपरामर्शनरत- ल्लिङ्गतापत्तेः । न चात्र तल्लिङ्गताविष्ट कश्चिदर्थ प्रक्रान्तः वन्तुनो नपुसकलि- इस्यानन्तर प्रक्रान्तत्वात् । तेन तत्रैव --- १. ‘शब्दस्यार्थस्य' इति पुस्तके पाठ. २. ‘वगतिसिद्धेः' इति खपुस्तके पाठ