पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके प्रथमो विमर्शः । प्रकाशनमुपपद्यते । यतस्तैरेव कारणादिभिः कृत्रिमैर्विभावाद्याभधानैरसन्त एव रत्यादय प्रतिबिम्बकल्पः स्थायिभावव्यपदेशभाज कावाभ, प्रतिपत्तृप्रतीतिपथ- मुपनीयमाना हृदयसवादादावाद्यत्वमुपयन्तः सन्तो रसा इत्युच्यन्ते । न च कारणादिभिः कार्यादयः प्रतिबिम्बकल्पा सहैव प्रकाशितुमुत्सहन्ते कार्यकारण- भावावसायस्यैवावसाप्रसङ्गाद् । यत्र तु तल्लक्षण मुख्यतया सम्भवति तत् काव्यः मेव न भवतीति कुत एव तद्विशषध्वनिरूपता स्यात् । द्विविधो हि प्रकाशकोऽर्थ उपाधिरूपः म्वतन्त्रश्चेति । तत्र ज्ञानशब्दप्रदीपादिरुपाधिरूपः । तदुक्तं ---‘त्रयः प्रकाशाः स्वपरप्रकाश' इति । अन्य स्वतन्त्रो धूमादिः । तत्राद्यस्तावद् भवद्धि- नभ्युपगन्तव्य एव प्रत्यक्षाभिधेययोरेवार्थयो. काव्यतापात्तप्रसङ्गात् । अन्यम्य तु लिङ्गत्वमेवोपपद्यते न व्यञ्जकत्वं व्यक्तेरनुपपत्तेः । न च त्रिविधस्यापि व्यङ्गया- भिमतस्यार्थस्य प्रकाशकसहभावेन प्रकाशस्तस्यापि ध्वानकारस्याभिमतः । यदय- माह - 'न हि विभावानुभावव्यभिचारिण एवं रसा इति कस्याचदवगम. । तत एव च तत्प्रतीत्यविनाभाविनी रसाना प्रतीतिरिति तत्प्रतीत्यो कार्यकारणभावेनाव- स्थानात् क्रमोऽवश्यम्भावी । स तु लाघवान्न प्रकाशत इत्यलक्ष्यक्रमा एवं सन्तो व्यङ्गया रसादय' इति । अथैतद्दोपभयात् सहभावानपेक्षमेतल्लक्षणमुच्यते । तथाप्यनुमानेऽतिव्याप्तिः । तत्राप्युपसर्जनाकृतात्मना धूमादिना प्रकाश्यस्य प्रक- शोऽस्त्येव । अथासङ्गहणेन सा निरम्तेत्युच्यते तर्हि घटप्रदीपयोस्तस्याव्याप्ति घटस्य सत्त्वात् । अथासद्भहणं न करिष्यत इति तर्हि अकलोकेन्द्रचापादाव- व्याप्तिः । इन्द्रचापादेरसत्त्वात् । अथोभयोरपि ग्रहण न करिष्यत इति तर्खनुमा- नस्यैव तल्लक्षणं पर्यवस्यति, न व्यक्ते. । तच्चेष्टमेव नः, वाच्यप्रतीयमानयोः सतो- रेव च क्रमेणैव प्रकाशोपगमात् । तस्मात् तदवस्थ एवासम्भवो लक्षणदोषः । किञ्च सदसद्भावेन प्रकाश्यस्य विशेषणमनुपपन्नं व्यावत्यभावाद् इति । किञ्च यत्र । वाच्यस्यार्थस्य व्यञ्जकत्वं स चेद ध्वनिस्तर्हि तदनुमितस्य व्यञ्जकत्वे ध्वनित्वं न । स्यात् तस्य वाच्यत्वाभावात् । ततश्च एवं वादिनि देवर्षी इत्यादी ध्वनित्वमिष्टं न स्याद् इत्यव्याप्तिलक्षणदोषः । अथार्थशब्देनोभयमपि सङगृहीतं तस्याभयार्थ- विषयत्वेनेष्टत्वात् । यदाह -- अर्थः सहृदयलाध्यः काव्यात्मा यो व्यवस्थितः । वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ।'