पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

JuTotuitinuatunnifestamernande rinarimmsons १२० व्यक्तिविवेके तृतीयो विमर्शः। इत्यत्र तु गोशब्दस्यानेकार्थत्वेऽप्राकराणकार्थान्तरप्रतिभात्पत्तौ न किञ्चिन्निबन्धन- मवधारयामः । तथा हि । गोशब्द एवानेकार्थत्वात् निबन्धनमुपकल्प्येत, तद्विशे- पणजातमुभयमपि वा अन्यस्यार्थप्रकरणादेरसम्भवात् । तत्र न तावद् गोशब्द एवेति शक्यते वक्तुं सुरभिव्यतिरिक्त वजादावनभिमतेऽप्यर्थान्तरे प्रतीत्युप- जननप्रसङ्गात् , तस्यानेकार्थत्वाविशेष नियमहेतोरभावात् । अथ विशेषणजातमेव नियमहेतु परः, तद्धि यदर्थानुगुणमुपलभ्यते तत्रैव प्रतीतिमुपजनयतीति । तर्हि ततोऽपि सा तदनुगुणावगतिर्निर्निबन्धना तद्वदेवाकस्मिकी कथमिवोत्पद्येत । विशेष्यवाचिनोऽनेकार्थस्य तु तन्निइन्धनभावोपगमे अन्योन्याश्रयदोषः । न चो- भयमप्यन्योन्यानुग्राहितदुपजननसामर्थ्यमवनिपवनादिकमिवाङ्कुरमर्थान्तरप्रतिभामु- पजनयति, यतो जडपदार्थविषय एवायमुपपन्नः क्रमः । यत्र स्वाभाविक एवायं जन्यजनकभावः न वाच्यवाचकभावविषयः, तत्र हि प्रतिपत्तृपराम- शीपेक्षापरतन्त्रोऽर्थाध्यवसायोपजनो न स्वाभाविकः । तत्र वाच्यार्थविषयस्यास्य वाचक एव तत्संस्कारप्रबोधनिबन्धन नान्यः । अर्थान्तरविषयस्य तु तस्यावश्य- मन्यदेवापेक्षणीयं युक्तं न पुनरेक एवोभयत्रापि, एकहेतुकत्वेऽर्थयोः क्रमनियमा- नुपपत्तेः प्रत्यर्थ शब्दनिवेशोपगमविरोधाचेति तयोभिन्नहेतुकत्वमवगन्तव्यम् तच्च तदावृत्त्या वास्तु अर्थप्रकरणादिना वा, न तत्रास्माकमभिनिवेशः कश्चित् । केव- लमन्यतस्तत्प्रतिभोद्भेदाभ्युपगमेनानुमानान्तर्भावः स्फुट एव तस्यैव लिङ्गतापत्तेरिति शब्दस्यानेकार्थतावगममात्रमूलोऽयमद्यापि कवीनामर्थान्तरप्रतीतिभ्रम इति व्यर्थः शब्दशक्तिपरिकल्पनप्रयासः । एवं चास्य वाच्यातिरेकिणोऽर्थान्तरस्य प्रती- तिरेव न समस्तीति यत्राप्रस्तुताभिधानप्रसङ्गभयात् तयोरुपमानोपमेयभावप्रकल्पनं तदपि निर्मूलमेवेत्यवगन्तव्यम् । किञ्च न स्वभावत एव शब्दानामर्थप्रतीतिक्रम इति नियमसम्भवः, किन्तर्हि सामग्रीवशात् । सो हि यदर्थानुगुणोपलभ्यते तमेव तस्याथै कल्पयतीति सर्वः शब्दः सर्वार्थविषयः सर्वश्वार्थः सर्वशब्दविषयो भवि- तुमर्हति । ततश्चातदर्थोऽप्यन्यः शब्दः सामग्रीवशात् समासोक्तिन्यायेन तमवगम- यितुं क्षमेतैव, न पुनस्तदर्थोऽपि सामग्रीविकलो गवादिशब्दः, आस्तां वान्यः शब्दो, यः साधुत्वेन प्रसिद्धः । असाधुरपि यावत् तद्वशादनुमितवाचकभावोऽभि- मतमर्थमभिदधात्येवेति सामग्रीसद्भावान्वयव्यतिरेकानुविधायिनीयमर्थान्तरप्रतीति- रित्यवसीयते । यदाहुः- 1. 'प्रतीतिम्' इति खपुस्तके पाठ!, २. 'स्य भाववद्वा' इति खपुस्तके पाठ 'मेऽनु' इति खपुस्तके पाठः