पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११२ व्याक्तिविवेके द्वितीयो विमर्श । नःप्रीतय इत्यत्र च मनश्शब्दः पुनरुक्तः प्रीतेर्मनोधर्मतया तदधिकरणभावाव्य- भिचारादित्येतत् प्रपञ्चितमेव प्राक् । तेन वरमयमत्र पाठः श्रेयान् अल्पदोषत्वात् । "काव्यस्यात्मेत्यमलमतिभिर्यो ध्वानिर्नाम गीत- स्तस्याभावं जगदुरपरे भाक्तिरित्येवमन्ये । केचिद्वाचामविषय इति प्रस्फुरत्तत्त्वमन्त- स्तेन ब्रूमः सहृदयजनप्रीतये तत्स्वरूपम् ॥” इति । यद्वा इदमद्यतनानां च भाविनां चानुशासनम् । लेशतः कृतमस्माभिः कचिवत्मार्रुरुक्षताम् ।। १२६३ ।। इत्यलमप्रस्तुतवस्तुविस्तरेण । तस्मात् स्थितमेतद् यथा शब्दस्यार्थाभिधानमन्तरेण न व्यापारान्तरं सम्भवतीति । गमयन्त्यर्थमुखेन हि सुप्तिडूचनादयोऽपरानर्थान् । तेन ध्वनिलक्ष्मविधौ शब्दग्रहणं विफलमेव ॥ १२७३ ।। इति सङ्ग्रहार्या । इति श्रीराजानकमहिमभट्टविरचिते व्यक्तिविवेकाख्ये काव्यालङ्कारे शब्दानौचित्याविचारो नाम द्वितीयो विमर्श । अथ तृतीयो विमर्शः । तदेवं ध्वनिलक्षणस्य तद्भेदानां चानुमानेऽन्तर्भावमुपपाद्य सम्प्रति तदुदा- हरणानां यथायोगं क्रमेणासावुपदर्श्यते । तत्र वस्तुमात्रस्य तावत् --

“भैम धम्मिअ! वीसद्धो सो सुणओ अज्ज मारिओं देण ।

| गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण ॥ इत्यत्र केनचित् सुकृतिना यूना सह विस्रम्भसम्भोगसुखास्वादलालसया विजने वने विविधकुसुमामोदमुदितमधुकृति कृतसङ्केतया कयाचित् कुसुमापचिचीषया श्रमतो १ ‘तत्प्रभेदानाम्' इति खपुस्तके पाठः, २ भ्रम धार्मिक ! विस्रब्धः स शुनकोऽद्य मास्तिस्लेन । गोदानदीकच्छङ्कहरवासिना इलासिंन ॥