पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिचित्रेके द्वितीय विमर्शः। तस्याभिधानात्मन इतना व्यवच्छेदाद् अन्यस्य च ध्वनेरनुपादानात् । स ह्यभावादि- धर्माधिकरणभावेन सर्वनामपरामर्शयोग्योऽवश्यमुपादेयः, नचोपात्तः । यथोपात्तः स तदभिधानानुकारस्वरूपमात्राधानो नाथबिमुका इति काव्यात्मन एवार्थस्य तदधि- करणभावो विज्ञायते न ध्वनेः । स हि तन्न सज्ञामात्रम् । यत् स एवाइ ‘काव्य- स्यात्मा ध्वनिसंज्ञित' इति । तद्यानिष्टमेव । न हि केचित् काव्यात्मनो रसादेरभावं भाक्तत्वं वाभ्युपगच्छन्ति । मुख्यवृत्त्या च काव्यात्मशब्दवाच्यो रसादिरेव युक्तो नापरः । तदभावे प्रतीयमानान्तरसस्पर्शेऽप्यर्थापत्यादिबाक्यवत् काव्यस्य निर्जी- वतापत्तेः । एतचच् रसस्वरूपमुपक्रम्य स एवाह --- “काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा । | क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ।। इति । इतिनाथें व्यवच्छिन्नः शब्दमात्रेऽवतिष्ठते ।। १२३ ॥ सर्वनामपरामर्शयोग्योऽसौ न भवेत् ततः । यथा घटः कुट इति ज्ञेयो यस पृथूदर ॥ १२४ ।। ततोऽर्थ एव काव्यात्मा तत्परामर्शनोचित. ।। यथा नृपो नृग इति थ्व य स महामतिः ।। १२५ ।। न ध्वनिस्तदभावादिसम्बन्धोऽस्य कथं मतः । इत्यन्तश्लोकाः । एवन्तर्हि

  • अस्त्युन्नते सुरसरिजलधाव्यमानभागे नवार्काचे मन्दरशैलशृङ्गे ।

ज्योत्स्नावतीति नगरी भुवनत्रयैकभूषा वृषाङ्काशिरसीव शशाङ्कलेखा ।' इत्यत्र शशाङ्कलेखाया ज्योत्स्नावतीत्वेन यद्विशेषण तदनुपपन्नमेव स्याद् इतिशब्द- व्यवच्छेदादिति । वाढम् । को वा नानुमन्यते । केवलामितिशब्दार्थानवधारणमूलो मोह एवासौ व्याख्यातृणामिति । अथ काव्यात्मानुवादेन विहितस्य ध्वनेः समा- मानक्रियाकर्मभावावच्छेदेन समुदायादयमितिशब्दः प्रयुक्त इत्यर्थप्रधान एवायं ध्वनिशब्दो न स्वरूपप्रधान इति तस्य सर्वनामपरामर्शयोग्यस्याभावादिसम्ब- न्धो घटत एव इत्युच्यते तदयुक्तम् । एव हि वाक्यार्थावच्छेदः प्रतीयेत, ततश्च तत्परामर्शिनः सर्वनामपदादेर्नपुसकलिङ्गानिर्देशप्रसङ्ग इति । यथा --- ‘तदवितथमेव मन्ये विषया आशीविषा इति यदाहुः ।'