पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्याक्तिविवेके द्वितीयो विगर्शः । "निशि नान्तिकम्यितामपि चकाहः सहचरीं विलोकयति । चक्राह्रापि न सहचरमहो मुटुर्लङवना नियतेः ॥” इति । अत्र हि चक्राहॢानहगौ न त्वशब्दपगमर्शविषयौ भवितुमर्हतॱ, तयोरुक्त- नयेन सर्वनामपरामर्शविपयत्वोपादानात् , अन्यथा तयोॱ पौनरुक्त्यं सर्वनाम्नां च विषयापहार. स्यात् । न चात्र तथा परामर्शो विहित इति वाच्यावचनं दोषः । तेन ‘विरहविधुरा न सापि त'मित्यत्रानुगुणः पाठः । एवम् -- “परिपाति स केवलं शिशूनिति तन्नामनि मास्म विश्वसीः ।" इत्यादावप्ययं दोषो द्रष्टव्य । तस्य हि शिशुपाल इति नाम प्रसिद्ध न तु शि- शुपरिप इति । 'तेन स शिशून् किल पालयल्यभीः' इति युक्त. पाठ इत्यल बहुभाषितेन् । अनेन च वाच्यावचनेन सामर्थ्यादवाच्यवचनमपि सङ्गृहीतं वेदितव्यम् । तस्यापीष्टार्थविपर्ययात्मकत्वात् । तद्यथा-‌ "सरित्समुद्रान् सग्सीश्च गत्वा रक्षःकपीन्दैरुपपादितानि ।। तस्यापतन्मृर्न्धि जलानि जिष्णोर्विन्ध्यस्य् मेघप्रभवा इवापः ।।" इति । अत्र हॢोकस्यौवार्थस्य यः पर्यायमात्रभेदेन भदमुपकल्प्योपमानोपमेयभावो निबद्धः सोऽवाच्यवचन दोषः, तस्य भिन्नार्थनिष्ठत्वात् । तदयमत्र पाठो युक्तः ‘विन्ध्यस्य मेघप्रभवानि यद्वत्' इति । अम्श्नि पाठे भिन्नलिङ्गत्वमुपमादोषोऽपि परिहृता भवति । पर्यायमात्रभिन्नस्य यदेकस्यैव वस्तुनः ।। उपमानोपमेयत्वमवाच्यवचनं च तत् ।। १ ० १ ।। इति सङ्ग्रहश्लोकः । यथा च --- "इय गेहे लक्ष्मीरियममृतवत्तिनयनयो-

रसावस्यास्स्पर्शो वपुषि बहलशन्दनरसः ।

अय कण्ठे बाहु. शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ।।" इत्यत्र यत् साक्षान्नायिकावर्णनंं तदवाच्यमेव । तत्सम्वन्धिनामेव स्पर्शादीनामिव रम्याणामर्थानां विरहव्यतिरेकोणाङ्गभावोयगमाद्, न तस्या एव विरहस्य तत्स- म्बन्धित्वेऽप्यसह्यत्वाभिधानादिति तस्या वचनं दोषः । तेन ‘मुखं पूर्णश्चन्द्रो वपुर- मृतवर्त्तिर्नयनयो’रित्यत्र युक्तः पाठः । यथा च -