पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः ।

"समन्ततः केसरिणं वसन्तं भीमं च कान्तं च वपुर्वह्न्तम् । विलोक्य दूरात् तरसाभिमानो दुर्वारण: क्वापि गतः स मत्तः ॥" इति । अत्र हि केसरिदुर्वारणयोर्वसन्ताभिमानयोश्च धभिधमेभियार्थयोरन्योन्यं वि- शेषणविशेष्यभावो रूप्यरूपकभावो वा निबद्धः । स चायुक्तः । न हि स्वतन्त्रपरत- न्त्रतालक्षणविशेषणविशेप्याद्यात्मकविरुद्धोभयार्थाभिधानं सकृदुपात्तेनैकेनैव शब्देन शक्यते कर्तुम् अर्थयोरन्योन्यविरोधात् । द्विरुपादाने तु तयोर्भिन्नार्थत्वान्न कश्चित् दोषः । यथा -- “अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपैङ्किनिपातिभिरङ्कितः। न खलु शोभयति स्म, वनम्थली न तिलकम्तिलकः प्रमदामिव ॥" इत्युक्तप्रायम् । न च तदुपात्तमिति तस्य वाच्यस्यावचन दोष । तदभिव्यक्तिनि- बन्धनसद्भावे तु तयोः प्रधानेतराभिव्यक्तो विशेषणविशेष्यप्रतिनियमो युक्त एव । यथा ----- "अतिगम्भीरे भूपे कृप इव जनम्य निग्वतारस्य। दधति समीहितसिद्धि गुणवन्तः पार्थिवा घटकाः ।।" इति । अत्र हीवशब्दनिबन्धनो गुणवत्त्वबटकत्वयोर्विशेषणविशेप्यभावो न पार्थिवत्व- स्यापि, तस्योपमेयतया प्राधान्यात् अन्यथा तन्य म्वरूपापहारापत्तोग्त्युक्तम् । किञ्च मत्त इत्यस्य द्विरुपादानेऽपि नार्थश्लेपो घटते तयोर्भिन्नविभक्तिकत्वादिति भ्रान्तिमात्रकृतस्तत्रार्थश्लेषाभिमानः । किञ्च लक्षणवाक्ये शब्दमात्रेणेति यन्मात्रग्रहण तदुपमानसामानाधिकरण्यतदितरग्रोग्ययोरुभयोरपि शब्दयोः परिग्रहार्थम् । तेन लिङ्गवचनविभक्तिविशेषणयोगे सति यम्य सद्योगत्वमुपजायते तेनापि सादृश्य कथनीयमित्यभ्यनुज्ञातं भवति । तत्र लिङ्गविशेषयोगे सति यथा ---- "उषसि विगलितान्धकारपङ्कप्लवशबल घनवर्त्म दूरमासीत्। मधुरतरणितापयोगतारं कमलवने मधुपायिनां च पङ्क्ति: ।।" इत्यत्र चशब्दनिबन्धना श्लेषाभिव्यक्ति । वचनविशेषयोगे यथा ---- “विघटिततिमिरौघदिक्प्रबन्धप्रकटनभस्यभवन्निशावसाने । स्फुटदलनमनाश्च पद्मषण्डास्सपदि हिमेतरदीधितिश्च तेषाम् ॥" इत्यत्र चशब्दनिबन्धनावृत्ति: । यथा च --- "तनुत्वरमणीयस्य मध्यस्य च भुजस्य च । अभवन्नितरा तस्या वलयः कान्तिवृद्धये ।। १, ‘भक्ति' इति खपुस्तके पाठ ,