पृष्ठम्:वैमानिकप्रकरणम्.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वैमानिकप्रकरणे
५. गूढरहस्यो नाम ॥
वायुतत्वप्रकरणोक्तरीत्या वातस्तम्भाष्टम परिधिरेखापथस्थ यासा, वियासा, प्रयासादि वातशक्तिभिः सूर्यकिरणान्तर्गत तमशक्तिमाकृष्य तत्संयोजनद्वारा विमानाच्छादनरहस्यम् ॥
६. दृश्यरहस्यो नाम ॥
आकाशमण्डले विद्युद्वात किरणशक्त्योः परस्परसम्मेलनात् सञ्जात बिम्बकृच्छक्तेः

विमानपीठपुरोभागस्थ विश्वक्रियादर्पणबिले प्रतिफलनं कृत्वा पश्चात्तत्प्रकाशसन्निवेशनद्वारा मायाविमानप्रदर्शनरहस्यम् ॥

७. अदृश्यरहस्यो नाम ॥
शक्तितन्त्रोक्तरीत्या सूर्यरथेषादण्ड प्राङ्मुख पृष्ठकेन्द्रस्थ वैणरथ्य विकरणादिशक्तिभिः आकाशतरङ्गस्थ शक्तिप्रवाहमाकृष्य वातमण्डलस्थ बलाहाविकरणादिशक्तिपञ्चके नियोज्य तद्धारा श्वेताभ्रवन्मण्डलाकारं कृत्वा तदावरणात् विमानादृश्यकरणरहस्यम् ॥
८. परोक्षरहस्यो नाम ॥
मेघोत्पत्तिप्रकरणोक्त शरन्मेघावरणषट्केषु द्वितीयावरणपथे विमानमन्तर्धाय, विमानस्थ शक्त्याकर्षण दर्पणमुखा तन्मेधशक्तिमाहत्य पश्चाद्विमानपरिवेषचक्रमुखे निवेशयेत् । तेन स्तम्भनशक्तिप्रसारणं भवति । पश्चात्तद्वारा लोकस्तम्भनक्रियारहस्यम् ॥
९. अपरोक्षरहस्यो नाम ॥
शक्तितन्त्रोक्तरोहिणीविद्युत्प्रसारणेन विमानाभिमुखस्थवस्तूनां प्रत्यक्षनिदर्शनक्रियारहस्यम् ॥
१०. सङ्कोचनरहस्यो नाम ॥
यन्त्राङ्गोपसंहाराधिकारोक्तरीत्या अन्तरिक्षे अतिवेगात् पलायमानानां विस्तृत खेटयानानां अपायसम्भवे विमानस्थसप्तमकीलीचालनद्वारा तत्तदङ्गोपसंहारक्रियारहश्यम् ॥