पृष्ठम्:वैमानिकप्रकरणम्.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽध्यायः

चाक्रायणिर्धुण्डिनाथश्चेति शास्त्रकृतस्स्वयम् । विमानचन्द्रिका व्योमयानतन्त्रस्तथैव च ॥
यन्त्रकल्पो यानबिन्दुः खेटयानप्रदीपिका । व्योमयानार्कप्रकाशश्चेति शास्त्राणि षट्क्रमात् ॥
नारायणादि मुनिभिः प्रोक्तानि ज्ञानवित्तमैः। विचार्यैतानि विधिवद्भरद्वाजः कृपानिधिः ॥
वैमानिकाधिकरणं सर्वलोकोपकारकम् । पारिभाषिकरूपेण रचयामास विस्तरातु ॥४२॥

॥ इति लक्षणाधिकरणम् ॥


॥ अथ विमानशब्दार्थविचारः ॥


सू. १. वेगसाम्याद्विमानोऽण्डजानामिति ॥


बोधानन्दवृत्तिः -

अण्डजेत्यत्र सूत्रेस्मिन्गृध्राद्याः पक्षिणः स्मृताः। आकाशगमने तेषां वेगशक्तिः स्ववेगतः ॥
यस्समर्थो विशेषेणमातुं गणितसङ्ख्यया । स विमान इति प्रोक्तो वेगसाम्याच शास्त्रतः ॥

यद्वा

गृध्रादिपक्षिणां वेगसाम्यं यस्यास्ति वेगतः। स विमान इति प्रोक्तो आकाशगमनेक्रमात् ॥
इति इत्थं भावेति शब्दस्स्याद्विमानार्थ विनिर्णये ॥ ॥ ४५ ॥

लल्लोपि -
विसोपमानं गमने येषामस्ति खमण्डले।
ते विमाना इति प्रोक्ता यानशास्त्रविशारदैः॥
नारायणोपि -
पृथिव्यप्स्वन्तरिक्षेषु खगवद्वेगत स्वयम् ।
यस्समर्थो भवेद्गन्तुं स विमान इति स्मृतः ॥
शंखोऽपि -
स्थानात्स्थानान्तरं गन्तुं यस्समर्थः खमण्डले ।
स विमान इति प्रोक्तो यानशास्त्र विशारदैः ॥