पृष्ठम्:वैमानिकप्रकरणम्.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणम्

द्वितीयोऽध्यायः भपकर्षकयन्त्रेण परशक्त्यपकर्षणी । सन्धानयन्त्राद्वादश शक्तयस्सन्निरूपिताः । कुपिंटणी नामका शक्तिरुक्ता दार्पणिकादिति । शक्तिप्रसवयन्त्रेण मूलशक्तिरुदीरिता ॥ एवं क्रमात्सप्तयन्त्रशक्तयः परिकीर्तिताः ।। ॥ तत्र तावच्छौनकं सूत्रम् ॥ भदिति मावाय्वन्द्वमृताम्बरशक्तय सप्त वैमानिक्यः इति तासां नामान्यनुक्रमिप्यामः। उद्गमा पञ्जरा सूर्यशक्त्यपकर्षिणी परशक्यपकर्षिणी विद्युद्वादशक कुण्टिणी मूलशक्तिश्चेति ॥ ॥ सौदामिनी कलायामपि ॥ । सू. मलयरस वनशक्तयो वैमानिक्यः इति ॥ बोधानन्दवृत्तिः - मकारोऽदितिशक्तिरस्यात् उद्गमेति प्रचक्षते । लकारः पृथिवी शक्तिः पञ्जरेत्यभिधीयते ॥ यकारो वायुशक्ति:स्यात् सूर्यशक्त्यपकर्षिणी। रेफास्तुसूर्यशक्तिस्स्याद्विद्युद्द्वादशकःस्मृतः ॥ सकारविन्दुशक्तिःस्यात् परशक्त्यपकर्षिणी । जलशक्तिर्वकारस्यात्कुण्टिणीत्यभिधीयते ॥ नकारोऽम्बरशक्तिस्स्यान्मूलशक्तिरिति स्मृतः ॥ इत्यादि ॥ एवमुक्त्वा सप्तशक्तिखरूपं शास्त्रतः स्फुटम् । तत्तत्कृत्यं यथाशास्त्र संग्रहेण निरूप्यते ॥ । ॥ तदुक्तं क्रियासारे ॥ विमानस्योर्ध्वगमन उद्गमा शक्तितस्मृतम् । अधस्ताद्गमनं तस्य पञ्जरा शक्तितो भवेत् ॥ अर्कोशूष्णापहारी स्यावृष्टिशक्यपकर्षिणी । परशक्त्यपकर्षिण्या सर्वशक्तिनिरोधनम् ॥ विद्युद्दादश का द्यानविचित्रगमनं स्मृतम् । मूलशक्त्या सर्वशक्तिचलनाद्याः प्रकीर्तिताः ॥ सप्तशक्तिक्रिया एवमुक्त्वा यानत्य शास्त्रतः। अथ विद्युद्वादशकविचारः क्रियते क्रमात् ॥ ॥ तदुक्तं सौदामिनीकलायाम् ॥ विमानगति बैचित्र्य प्रभेदाः द्वादशस्मृताः । तक्रियाकरणे विद्युच्छक्तयस्तावदेव हि ॥ तासां नामानि यानस्य गतिभेदाअपि क्रमात् । समुच्चयान्निरूप्यन्ते संग्रहेणात्र शास्त्रतः ॥ चलना कम्पना थोध्व अधरा मण्डला तथा। वेगिनी अनुलोमा च तिर्यञ्ची च पराङ्मुखी ॥ विलोमा स्तम्भना चित्राचेति द्वादश शक्तयः। विमानचालनं विद्युच्चलनाशक्तितः स्मृतम् ॥ तत्कम्पनं विशेषेण कम्पनाशक्तितो भवेत् । विमानस्योर्ध्वगमन मूवसंचनाद्भवेत् ॥