पृष्ठम्:वैमानिकप्रकरणम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणम्

(10) द्वितीयोऽध्यायः ॥ तदुक्तं दर्पणप्रकरणे ॥ वराटिकासप्तकमजुळत्रयं डिम्भीरषट्कं रजकाष्टकं तथा । मण्डुरषट्कं वरपारदाष्टकं तालत्रयं ब्राह्मिकसप्तकं ततः ॥ नागड्यं चाञ्जनिकाष्टकं तथा मातृण्णषट्कं वरवालुकाष्टकम् । किशोरषट्कं मुचुकुन्दपञ्चकं तैलद्वयं लोहिकपञ्चविंशतिः ॥ मृडानिगर्भोद्भवसत्त्वपञ्चकं मृदष्टकं स्फाटिकपञ्चकं तथा । शल्यत्रयं पञ्चदशेन्दुसत्त्वकं दम्बोळिराकाद्वयसत्वपञ्चकम् ॥ एतान्क्रमाद्वाविंशतिवस्तुवगन्शुडान्समादाय यथाविधि क्रमात् ।। संपूर्य चञ्चूपुटमूषमध्ये चञ्चूपुटव्यासटिकान्तरे न्यसेत् ॥ संगालयेत्सप्तशतोष्णकक्ष्यैश्शास्त्रोक्तमार्गेण निमीलनान्तम् ।। पश्चात्समाहत्य शनैश्शनैःक्रमाद्यन्त्रोवनाळास्यमुखे नियोजयेत् ॥ ततो गुहागर्भकदर्पणं भवेच्छुद्धं सुसूक्ष्म सुदृढं मनोहरम् ।। ॥ अथ रौद्रीदर्पणनिर्णयः ॥ ॥ दर्शनादेव सर्वेषां द्रावणं येन जायते । तद्रौद्रीदर्पण इति प्रवदन्ति मनीषिणः ॥ ॥ तदुक्तं परांकुशे ॥ रुद्राण्योषराभ्रलिङ्गौ यत्र संमेळनं भवेत् । रौद्री नाम भवेत्काचिच्छक्तिस्तत्रोग्ररूपिणी ॥ अकशुयोगत स्सा तु सर्वान्संद्रावयेत्स्वयम् । यद्रुद्राण्योषराभ्रलिङ्गाभ्यां क्रियते क्रमात् ॥ तद्द्राणीदर्पण इत्युक्तं शास्त्रविदां वरैः ।। ॥ उक्तं च संमोहनक्रियाकाण्डे ॥ रौद्री भान्वंश संयोगा ज्जायते मारिकाभिधा । विषशक्तिस्तया सूर्यकिरणाशनिसम्भवः ॥ तत्संदर्शनमात्रेण परयानविनाशनम् । यत्करोति विशेषेण तद्रौद्रीदर्पणो भवेदिति ॥ रौद्रीदर्पणनामादीनेवमुक्त्वा यथाविधि । तत्पाकविधिरद्यात्र संग्रहेण निरूप्यते ॥ | ॥ तदुक्तं दर्पणप्रकरणे ॥ नागाष्टकं शाल्मलिकत्रयं तथा दुर्वारषट्कं कुडुपिञ्जराष्टकम् ।।