पृष्ठम्:वैमानिकप्रकरणम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणम्

घमनकण संपूर्य पश्चात्सुकपालमूषामुखे न्यसे ह्यासटिकान्तरे दृढम् । सङ्गालयेत्सप्तशतोष्णकक्ष्यप्रमाणतो नेत्रनिमीलनान्तम् ॥ ४८२ ॥ संगृह्य सङ्गालिततद्रसं शनैः यन्त्रोवनाळास्यमुखात्प्रपूरयेत् ।। पश्चादृढं सूक्ष्ममतीवशुद्ध मनोहरं पिंजुळदर्पणं भवेत् ॥ इत्यादि । ॥ अथ गुहागभदर्पणनिर्णयः ।। वारुणीवातकिरण शक्तिसङ्घर्षणक्रमात् । जायन्ते रोगदा नृणां गुहाद्या विषशक्तयः ॥ तास्समाहृत्य वेगेन विद्युत्संयोगतः पुनः। प्रसार्य परयानस्थजनोपरि विशेषतः ॥ यः प्रयच्छति दुःखानि विषरोगादिभिस्ततः । स गुहादर्पण इति प्रवदन्ति मनीषिणः। ॥ तदुक्तं प्रपञ्चसारे ॥ कश्यपोर्ध्व कपालाभ्यां मध्ये तिष्ठति वारुणी । कपालवारुणीमध्ये वाताः पञ्चसहस्रकाः। तथैव कश्यपारोगकिरणाश्चाष्टकोटयः । तत्तद्वातसमायोगा प्रभिन्नाः किरणाः पुनः ॥ अनुलोमविलोमाभ्यां प्रवहन्ति विशेषतः । शक्तिवतांशुसंयोगो यदा स्यात्खे परस्परम् । महादुःखकरास्तत्र गुहाद्या विषयशक्तयः । जायन्ते वेगसंयुक्ता जले बुबुदवःस्वयम् इति। | ॥ लल्लोपि ॥ दशोत्तरशतन्याय मनुसृत्य यथाक्रमम् । शक्तिवातांशुसंयोगो यदा भवति वेगतः ।। तदा सङ्घर्षणं तेषामतिवेगाद्भविष्यति । जायन्ते तेन विविधाः गुहाद्या विषशक्तयः ॥ तत्प्रयोगानृणां लोके भवेन्नानाविधामयाः ॥ इत्यादि । । ॥ वतस्सिद्धन्यायमुक्तं वसिष्ठेन ॥ विजातीयशक्तिसाङ्कर्यात्सजातीयविषशक्तिप्रवाहस्स्यात् कूर्माण्डवतु ॥ इति ।। ॥ तदुक्तं संमोहन क्रियाकाण्डे ॥ त्रिलक्षपञ्चसाहस्त्र तथा पंचोत्तरं शतम् । शक्तिवतांशुशक्तीनां परस्परविघट्टनात् ॥ रोगप्रदाः प्रजायन्ते गुहाद्या विषशक्तयः । कुष्ठापस्मारग्रहणी खासशूलप्रदा:क्रमात् ॥ तासु मुख्याः पञ्च इति शक्तयः परिकीर्तिताः । तासां नामानि विधिवत्संग्रहेण निरूप्यते। गृक्षोगोधारुजारौद्र गुहा इति च पञ्चधा । एतत्प्रचोदनाद्रोगप्रदानार्थं तु यत्कृतम् ॥ तनुहागर्भदर्पण इत्युक्तं शास्त्रवित्तमैः। एवमुक्त्वा गुहागर्भदर्पणं शास्त्रतः स्फुटम् ॥ ४९८॥ तस्येदानीं पाकविधि संग्रहेण प्रकीर्यते ।