पृष्ठम्:वैमानिकप्रकरणम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणम्

द्वितीयोऽध्यायः अत्यन्तसूक्ष्म सुदृढं भवेदृचं बालार्कवत्कुण्टिणिकाख्यदर्पणम् ॥ ॥ अथ पिझुळादर्पणनिर्णयः ॥ अकशुयुद्धसंजात शक्तिस्स्यात्पिंजुळेतिहि । सानेत्र कृष्णताराग्र प्रभाग्राहीति वर्णिता ॥ यतो निगृह्य तच्छक्ति वेगेन स्वीयशक्तितः । यन्तृणां कृष्णताराग्र प्रकाशं पालयत्यतः ॥ | पिङ्गुळादर्पण इति नामशास्त्रे निरूपितः ॥ ॥ तदुक्तमंशुबोधिन्याम् ॥ अग्नेः पूर्वदिश्यस्य स्थानमारभ्य संख्यतः । उपदिश्यस्य स्थानान्तमष्टधा दिग्विनिर्णयः ॥ यजुरारण्यके प्रोक्ता मंशूनां जातिनिर्णये । एकैकदिशि संजातरश्मयो भिन्नशक्तयः ॥ इति शास्त्रेष्वग्निभेदा प्रवदन्ति मनीषिणः । ऋतुकालप्रभेदेन पञ्चवातप्रवेशतः ॥ तेषामन्योन्यसंसर्गों वारुणी योगतो भवेत् । अतोंशूनां भवेयुद्धं शक्तिभेदत्व कारणात् ॥ तस्मिन्परस्परं वेगा त्तत्तदिशि विशेषतः । सङ्घर्षणात्प्रजायन्ते चतस्रो विषशक्तयः ॥ अन्धान्धकार पिंजूष तारपा इति ताः क्रमात् । रक्त जाठर ताराग्र प्रभाश्चाक्षिडयं हन्युः ॥ । ॥ उक्तं हि संमोहनक्रियाकाण्डेऽपि ॥ सूर्यांशु युद्धात्संजाता श्चतस्रो विषशक्तयः । अन्धान्धकार पिंजूष नेत्रमा इति वर्णिताः ॥ अन्धा शक्ति हन्ति रक्तं अन्धकारंतु जाठरम् । पिज्जूषा कृष्णताराग्रप्रभा नेत्रइयं तथा ॥ निहन्ति तारपा शक्तिः स्वकीय विषवेगतः । इत्यादि ॥ पिंजुळादर्पणस्यैवमुक्त्वा नामविनिर्णयम् । इदानीं तत्पाकविधिसंग्रहेण निरूप्यते ॥ ॥ तदुक्तं दर्पणप्रकरणे ॥ बाष्णींकषट्कं वरशोणपञ्चकं क्षाराष्टकं वालुकसप्तकं च । नियसमुत्पञ्चक टङ्कणाष्टकं दभ्भोळिसारद्वयमष्टपारदम् ॥ शुद्धाभ्रकं पञ्चरवि त्रपुडयं सुरोळिकासत्वचतुष्टयं च । त्वगष्टकं घार्युषिकत्रयं तथा कन्दत्रयं पिष्टचतुष्टयं च ॥ तालत्रयं माक्षिकसप्तकं च वृकोदरीबीज चतुष्टयं कमात् । अष्टादशैतान्वरशुद्धवस्तू न्संगृह्य सम्यक्परिशोधयेत्क्रमात् ॥