पृष्ठम्:वैमानिकप्रकरणम्.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणम्

पश्चाहीत्वा वरदर्पणास्य यन्त्रध्वनाळास्यमुखे नियोजयेत् ।। एवं कृते बैराजकदर्पणो दृढश्शुहस्सुसूक्ष्मो भवति प्रसिद्धः ॥ ४५४ ॥ ॥ अथ कुण्टिणीदर्पणनिर्णयः ॥ इत्युक्त्वा वैराजकाख्य दर्पण शास्त्रतः स्फुटम् । इदानीं कुण्टिणीदर्पण स्वरूपं प्रचक्षते । यदंशुभासन्निधानात्सर्वबुद्धिविकल्पनम् । भवेत्तत्कुण्टिणीदर्पण इति प्रोच्यते बुधैः ।। । ॥ तदुक्तं पराङ्कुशे ॥ आकाश विद्युत्तरङ्गसन्धिमार्गे स्वभावतः । सप्तस्रोतावर्तवात विषसंयोगतः क्रमात् ॥ बुद्धे विकल्पदा सप्त जायन्ते विषशक्तयः । तासां निवारणार्थाय यत्कृतं शास्त्रवित्तमैः ॥ तत्कुण्टिणीदर्पण इत्युक्ता नाम्ना विशेषतः ॥ विषशक्ति निर्णयस्तु ॥ ॥ उक्तं हि संमोहनक्रियाकाण्डे ॥ मेदोऽसृङमांस मज्जास्थि त्वग्बुद्धीनां विकल्पदाः ।। गालिनी कुण्टिणी काळी स्पिजुळा चोल्बणामरा ॥ आकाश विद्युत्तरंग सन्धिमार्गादिषु स्वतः । सप्तस्रोतावर्त वात विषसम्बन्धतः क्रमात्॥ एतारसप्त प्रजायन्ते दु:खदा विषशक्तयः। एवमुक्त्वा कुण्टिणीदर्पणस्य नामभेदान् कमात् ॥ इदानीं तत्पाकविधिसंग्रहेण निरूप्यते ॥ ४६२ ॥ ॥ तदुक्तं दर्पणप्रकरणे ॥ मृत्पञ्चकं कंचुकसप्तकं च फेनत्रयं षण्मुखसारपञ्चकम् । दिवङ्काष्टकं खड्गनखत्रयं च क्षाराष्टकं वालुकसप्तकं च ॥ पाराष्टकं शंखचतुष्टयं च मातृण्णषट्कं वरतालकत्रयम् । गजोष्ट्रयोः क्षारचतुष्टयं च सुरंधिका सप्तकपञ्चतैलम् ॥ मुक्तात्वगष्टत्रितयं च शुक्तिक्षारं तथा चेन्दुचतुष्टयं च । एतान् सुशुद्धान्क्रमतो गृहीत्वा संपूरये च्छिञ्जिकमूषमध्ये ॥ संस्थाप्य शिञ्जीरक कुण्डमध्ये संगालये सप्तशतोष्णकक्ष्यैः । पूर्वोक्तमार्गेण नियोजयेत्तद्रसं यथाशास्त्रविधानतस्ततः ॥